Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 12 जुलाईमासः (हि.स.)।
असमराज्ये राज्यव्यापिनः अभियानस्य अन्तर्गतं जप्तानां द्विसप्ततिचतुःशतकोट्यधिकद्विपञ्चाशल्लक्षमूल्यानां मादकद्रव्याणां विनाशः क्रियते। एषः अभियानः राज्यसर्वकारेण मादकद्रव्यतस्करीविरुद्धं सञ्चाल्यमानस्य व्यापकाभियानस्य भागः अस्ति।
मुख्यमन्त्री डा हिमन्तबिस्वशर्मा अस्मिन् अवसरे नलबाडीस्थिते चतुर्दशे असमपुलिसवाहिनीपरिसरे आयोजिते मादकद्रव्यविनष्टीकरणकार्यक्रमे सहभागं करिष्यति। अनेन कार्यक्रमेण राज्यसर्वकारः नशामुक्तम् असमराज्यम् इति स्वसंकल्पं पुनरपि अधिकं सुदृढं करिष्यति।
------------
Hindusthan Samachar / Dheeraj Maithani