Enter your Email Address to subscribe to our newsletters

जगदलपुरम्, 12 जुलाईमासः (हि.स.)। छत्तीसगढस्य बस्तरप्रदेशे शताब्दीप्राचीनधार्मिकसांस्कृतिकपरम्परायाः प्रतीकभूतस्य श्रीगोञ्चामहापर्वणः प्रारम्भः जूनमासस्य नवविंशतितमे दिने देवस्नानपूर्णिमाचन्दनयात्रापूजाविधिना जातः। भगवानः श्रीजगन्नाथस्वामिनः अनसरकालः जुलाईमासस्य चतुर्दशतमदिनपर्यन्तं प्रवर्तते। अस्मिन् काले भगवतः दर्शनं न भविष्यति। जुलाईमासस्य पञ्चदशतमे दिने भगवानः श्रीजगन्नाथः माता सुभद्रा भगवान् बलभद्रश्च श्रीमन्दिरस्य बहिः नेत्रोत्सवपूजाविधिना श्रद्धालुभ्यः दर्शनं दास्यन्ति। श्रीगोञ्चारथयात्रापूजाविधानार्थं परम्परानुसारं नूतनस्य रथस्य निर्माणकार्यं बस्तरप्रदेशस्य सिद्धहस्तशिल्पिभिः क्रियमाणम् अस्ति। पञ्चविंशतिपादोन्नतः काष्ठनिर्मितः रथः सम्प्रति आकारं प्राप्नोति। अन्यासामपि सर्वासां सिद्धतानां कार्याणाम् अन्तिमः चरणः प्रवर्तते। नवनिर्मिते रथे समारुह्य भगवानः श्रीजगन्नाथः माता सुभद्रा भगवान् बलभद्रश्च जुलाईमासस्य षोडशतमे दिने श्रीगोञ्चापूजाविधिना सह जनकपुरीगुडिचामन्दिरं सिरहासारभवनं च गमिष्यन्ति।
शताब्दीभ्यः प्रवर्तमानायाः परम्परायाः अनुसारं बस्तरगोञ्चापर्वणः नूतनरथस्य निर्माणकार्यं बेडाउमरग्रामस्य सिद्धहस्तशिल्पिना हरदेवस्य नेतृत्वे दशसदस्ययुक्तया दलसमित्या क्रियते। रथनिर्माणकार्ये संलग्नः शिल्पी हरदेवः अवदत् यत् समये एव रथनिर्माणकार्यं सम्पूर्णं भविष्यति। तेन उक्तं यत् बस्तरदशहरामहोत्सवस्य विशालद्विस्तरीयरथस्य निर्माणं तथा बस्तरगोञ्चारथस्य निर्माणमपि तस्यैव ग्रामस्य शिल्पिभिः क्रियते। ज्ञातव्यम् यत् रियासत्कालात् अनवरतं प्रवर्तमानं बस्तरगोञ्चापर्व षट्शतनवदशवर्षात्मकाम् ऐतिहासिकीं परम्पराम् आत्मनि धारयति। बस्तरगोञ्चापर्वणः अक्षुण्णपरम्पराणां निर्वहणं त्रिशतषष्टिगृहाणाम् आरण्यकब्राह्मणसमाजस्य ब्राह्मणैः क्रियते।
त्रिशतषष्टिगृहाणाम् आरण्यकब्राह्मणसमाजस्य पूर्वाध्यक्षः ईश्वरखम्बारी अवदत् यत् बस्तरगोञ्चापर्वणः सिद्धता सम्पूर्णवर्षं यावत् प्रवर्तते। भगवानः श्रीजगन्नाथस्य वार्षिकपूजाक्रमे द्वादशमासेषु त्रयोदश पूजाविधानानि निरन्तरं भवन्ति। तेषु बस्तरगोञ्चापर्वणि सम्पाद्यमानः पूजाविधिः सर्वातिविशालः भवति। सम्प्रति जुलाईमासस्य पञ्चदशतमे दिने नेत्रोत्सवपूजाविधानस्य तथा षोडशतमे दिने श्रीगोञ्चापूजाविधानस्य सिद्धता प्रवर्तते। श्रीगोञ्चापूजाविधौ नवनिर्मितेन गोञ्चारथेन सह त्रिषु रथेषु भगवानः श्रीजगन्नाथः माता सुभद्रा भगवान् बलभद्रश्च एतेषां द्वाविंशतिविग्रहाः समारोप्य श्रीगोञ्चारथयात्रापूजाविधिना सह जनकपुरीगुडिचामन्दिरं सिरहासारभवनं च गमिष्यन्ति। तत्र नवदिनपर्यन्तं श्रद्धालवः भगवतः पुण्यदर्शनलाभं प्राप्स्यन्ति। अस्मिन् काले परम्परानुसारं विविधाः पूजाविधानाः अनुष्ठानानि च बस्तरगोञ्चापर्वणः कार्यक्रमानुसारं सम्पन्नानि भविष्यन्ति।
छत्तीसगढस्य बस्तरप्रदेशे शताब्दीप्राचीनधार्मिकसांस्कृतिकपरम्परायाः प्रतीकभूतं श्रीगोञ्चामहापर्व सम्प्रति स्वस्य चरमावस्थां प्रति अग्रसरति। षट्शतनवदशवर्षप्राचीनायाः अस्याः ऐतिहासिकपरम्परायाः अन्तर्गतं भगवानः श्रीजगन्नाथस्य माता सुभद्रायाः भगवानः बलभद्रस्य च भव्यरथयात्रार्थं पञ्चविंशतिपादोन्नतस्य नूतनकाष्ठरथस्य निर्माणकार्यं अन्तिमचरणं प्राप्तम् अस्ति। बस्तरप्रदेशस्य परम्परागतशिल्पिभिः निर्मीयमाणः अयं रथः जुलाईमासस्य षोडशतमे दिने निष्क्रममाणायाः ऐतिहासिकायाः श्रीगोञ्चारथयात्रायाः प्रमुखम् आकर्षणं भविष्यति।ऐ
Hindusthan Samachar / Dheeraj Maithani