Enter your Email Address to subscribe to our newsletters

दरभङ्गानगरम्, १२ जुलाईमासः (हि.स.)। दरभङ्गासहिते सम्पूर्णे मिथिलाक्षेत्रे प्रतिवर्षं उत्पद्यमानायाः जलवृद्धिसमस्यायाः स्थायिसमाधानाय केन्द्रसर्वकारेण व्यापकस्तरे कार्याणि आरब्धानि। बाढप्रबन्धनाय, जलावृतक्षेत्रेभ्यः जलनिर्गमनाय, जलवायु-प्रतिरोधि-जलाधारसंरचनानां निर्माण-रक्षणार्थं च केन्द्रसर्वकारेण पर्याप्ता वित्तीयसहायता प्रदत्ता अस्ति।
स्थानीयसांसदः तथा लोकसभायां भाजपायाः सचेतकः डॉ. गोपालजी-ठाकुरः केन्द्रीय-जलशक्ति-मन्त्री राजभूषण-चौधरी-महोदयस्य पत्रस्य उल्लेखं कुर्वन् अवदत् यत् सः २२ मार्च २०२६ तमे वर्षे दरभङ्गा-जनपदे प्रतिवर्षम् आगच्छन्त्याः बाढायाः, जलावरोधस्य तथा जलनिर्गमनसमस्यायाः स्थायिसमाधानार्थं केन्द्रीयमन्त्रिणे पत्रं समर्प्य दृढकार्यवाहीम् आग्रहीतवान्।
सांसदेन उक्तं यत् केन्द्रीयमन्त्रिणा सूचितम् अस्ति यत् जलवृद्धिप्रबन्धन-सीमावर्ती-क्षेत्र-कार्यक्रमस्य अन्तर्गतं बिहारस्य जलवृद्धिपीडितक्षेत्राणां कृते, येषु दरभङ्गा अपि अन्तर्भवति, आहत्य ४८ परियोजनाः अनुमोदिताः सन्ति। एतासां परियोजनानां कृते केन्द्रसर्वकारेण ९४३.८१ कोटिरूप्यकाणां वित्तीयसहायता प्रदत्ता अस्ति। तासु ४३ परियोजनाः सम्पूर्णाः जाताः, चतसृषु परियोजनासु च कार्यं प्रगतिपथे वर्तते।
तेन उक्तं यत् दरभङ्गा-जनपदे कोसी, कमला, बलान, अधवारा-समूहस्य नद्यः तथा नेपालदेशात् विसृष्टं जलं च प्रतिवर्षं जलवृद्धे: संकटं जनयन्ति। अस्याः समस्यायाः समाधानाय वैज्ञानिक-दीर्घकालिक-रणनीतिः अवलम्ब्यते।
सांसदेन अपि सूचितं यत् मिथिलाक्षेत्रस्य दरभङ्गा, मधुबनी तथा समस्तीपुर-जनपदेषु विविधस्थानेषु जलवृद्धि-निरीक्षण-केन्द्राणि तथा जलस्तर-मापन-केन्द्राणि स्थापितानि सन्ति। एतेषां माध्यमेन जलवृद्धे: पूर्वसूचना, सम्भावितसंकटस्य निरीक्षणं तथा जलसंसाधनानां उत्तमप्रबन्धनं साधयितुं साहाय्यं भविष्यति। तेन विश्वासः व्यक्तीकृतः यत् एताः योजनाः भविष्ये जलवृद्धिनियन्त्रणस्य सह सिंचन-जलसंसाधन-विकासयोः क्षेत्रेऽपि महत्त्वपूर्णाः सिद्धाः भविष्यन्ति।
Hindusthan Samachar / Divya Ranjan