किंग जॉर्ज चिकित्सा विश्वविद्यालयस्य डॉ. सतीशाय अमिलत् अंताराष्ट्रियछात्रवृत्तिः
लखनऊ, 12 जुलाईमासः (हि.स.)। किङ्गजार्जचिकित्साविश्वविद्यालयस्य चिकित्साविभागस्य सहप्राध्यापकः डाक्टर सतीशकुमारः एकचत्वारिंशत्तमे अन्तरराष्ट्रीयचिकित्साविज्ञानअकादमीसम्मेलने प्रतिष्ठितसदस्यतासम्मानेन सम्मानितः अभवत्। एतत् सम्मेलनं जवाहरलालस्नातकोत
केजीएमयू के डॉ. सतीश


लखनऊ, 12 जुलाईमासः (हि.स.)।

किङ्गजार्जचिकित्साविश्वविद्यालयस्य चिकित्साविभागस्य सहप्राध्यापकः डाक्टर सतीशकुमारः एकचत्वारिंशत्तमे अन्तरराष्ट्रीयचिकित्साविज्ञानअकादमीसम्मेलने प्रतिष्ठितसदस्यतासम्मानेन सम्मानितः अभवत्। एतत् सम्मेलनं जवाहरलालस्नातकोत्तरचिकित्साशिक्षाअनुसन्धानसंस्थायां जिपमर पुडुचेरी नगरे सम्पन्नम्।

सम्मेलने देशविदेशेभ्यः आगताः वरिष्ठचिकित्सकाः वैज्ञानिकाः चिकित्साशिक्षकाः च सहभागित्वम् अकुर्वन्। डाक्टर सतीशकुमारः चिकित्साशिक्षायाम् अनुसन्धाने वैज्ञानिकप्रकाशनेषु रोगिसेवाक्षेत्रे च तस्य उल्लेखनीययोगदानस्य कृते एतत् अन्तरराष्ट्रीयसम्मानं प्राप्तवान्। अस्य उपलब्ध्या किङ्गजार्जचिकित्साविश्वविद्यालये समग्रे चिकित्साजगति च हर्षस्य वातावरणम् अभवत्।

डाक्टर सतीशकुमारः अस्याः उपलब्धेः विषये अवदत् यत् एतत् सम्मानं मम गुरुजनानां सहकर्मिणां विद्यार्थिनां च सहयोगस्य परिणामः अस्ति। भविष्ये अपि अहं चिकित्सानुसन्धानस्य गुणवत्तापूर्णचिकित्साशिक्षायाः रोगिसेवायाश्च क्षेत्रे निरन्तरं कार्यं करिष्यामि।

Hindusthan Samachar / Dheeraj Maithani