हिमाचल उच्च न्यायालयः 15 अधिवक्तारो वरिष्ठाःअधिवक्तारः नामिताः
शिमला, 12 जुलाईमासः (हि.स.)। हिमाचलप्रदेशस्य उच्चन्यायालयेन पञ्चदश अधिवक्तारः वरिष्ठाधिवक्तृरूपेण नामनिर्दिष्टाः सन्ति। अस्मिन् विषये अधिसूचना प्रसारिता। अधिसूचनानुसारम् एतत् नामनिर्देशनम् तत्कालप्रभावेन प्रवृत्तम् अभवत्। एषः निर्णयः अधिवक्तृअधिन
हिमाचल हाईकोर्ट


शिमला, 12 जुलाईमासः (हि.स.)।

हिमाचलप्रदेशस्य उच्चन्यायालयेन पञ्चदश अधिवक्तारः वरिष्ठाधिवक्तृरूपेण नामनिर्दिष्टाः सन्ति। अस्मिन् विषये अधिसूचना प्रसारिता। अधिसूचनानुसारम् एतत् नामनिर्देशनम् तत्कालप्रभावेन प्रवृत्तम् अभवत्। एषः निर्णयः अधिवक्तृअधिनियमस्य १९६१ तमवर्षस्य षोडशधारायाः द्वितीयोपधारायाः तथा हिमाचलप्रदेश उच्चन्यायालयस्य वरिष्ठाधिवक्तृनामनिर्देशननियमानां २०२५ तमवर्षस्य चतुर्थनियमस्य अन्तर्गतं कृतः।

येषाम् अधिवक्तृणां वरिष्ठाधिवक्तृपदम् प्रदत्तम् अस्ति तेषु अजयचन्देल, अखिलसैनीचोपड़ा, अरविन्दशर्मा, दीपकगुप्त, देशराज, करणसिंहकनवर, मनोजपाठक, ओंकारनाथजयरथ, राहुलगुप्त, राममूर्तिबिष्ट, शुभामहाजन, सुमीतराजशर्मा, सुरेन्द्रकुमारशर्मा, विकासराठौर तथा विक्रान्तठाकुर इत्येते समाविष्टाः सन्ति। अस्यां सूच्यां चतुर्दश पुरुषाधिवक्तारः एका महिला अधिवक्त्री च अस्ति। अधिसूचनानुसारम् एतानि सर्वाणि नामनिर्देशनानि तत्कालप्रभावेन प्रवृत्तानि अभवन्।

अधिसूचनायाम् उक्तम् अस्ति यत् आदेशस्य प्रतिलिपयः सूचनार्थम् आवश्यककार्यवाह्यर्थं च सर्वोच्चन्यायालयस्य महासचिवाय, भारतीय अधिवक्तृपरिषदाय, हिमाचलप्रदेश अधिवक्तृपरिषदाय, शिमलास्थित उच्चन्यायालय अधिवक्तृसङ्घाय, देशस्य सर्वेषां उच्चन्यायालयानां महासचिवेभ्यः, हिमाचलप्रदेश उच्चन्यायालयस्य न्यायाधीशानां सचिवालयेभ्यः, पञ्जीकरणविभागस्य सम्बद्धाधिकारिभ्यः तथा अन्येभ्यः सम्बद्धपक्षेभ्यः प्रेषिताः सन्ति। सहैव हिमाचलप्रदेश उच्चन्यायालयस्य वरिष्ठाधिवक्तृनामनिर्देशननियमानां २०२५ तमवर्षस्य पञ्चमनियमानुसारम् आवश्यकाः औपचारिकाः प्रक्रियाः सम्पादयितुं निर्देशाः अपि प्रदत्ताः। एषा अधिसूचना उच्चन्यायालयस्य आदेशेन प्रसारिता अस्ति।

वरिष्ठाधिवक्तृपदं न्यायव्यवस्थायां योग्यतायाः अनुभवस्य व्यावसायिकयोगदानस्य च सम्मानरूपेण परिगण्यते

वरिष्ठाधिवक्तृपदं न्यायव्यवस्थायां अधिवक्तृणां योग्यतायाः अनुभवस्य व्यावसायिकयोगदानस्य च सम्मानरूपेण परिगण्यते। एतत् पदं प्राप्तानन्तरं वरिष्ठाधिवक्तृभ्यः न्यायालये कतिपयानि विशेषाधिकाराः उत्तरदायित्वानि च प्राप्यन्ते। तेभ्यः न्यायालयस्य अग्रासनभागे उपवेशनस्य विशेषाधिकारः लभ्यते, यः इनरबार इति नाम्ना प्रसिद्धः अस्ति। न्यायालये वादश्रवणसमये सामान्याधिवक्तृभ्यः पूर्वं स्वपक्षप्रस्तुतीकरणस्य तर्कवितर्कयोः च प्राधान्यमपि तेभ्यः प्रदीयते। वरिष्ठाधिवक्तृणाम् आचरणे कार्यप्रणाल्यां च अधिवक्तृअधिनियमस्य सम्बद्धनियमानां च अन्तर्गतं कतिपये विशेषेण प्रावधानाः अपि प्रवर्तन्ते।

---------------

Hindusthan Samachar / Dheeraj Maithani