अंताराष्ट्रिय भौतिकी ओलंपियाडे भारतेन सर्वाणि 5 स्वर्णपदकानि जितानि, संयुक्त रूपेण विश्वस्मिन् प्रथमं स्थानम्
नव दिल्ली, 12 जुलाईमासः (हि.स.)।भारतेन ५६ तमे अन्ताराष्ट्रीयभौतिकीओलम्पियाडप्रतियोगितायां उत्कृष्टं प्रदर्शनं कृत्वा पञ्चसु अपि स्वर्णपदकेषु विजयः प्राप्तः। कोलम्बियादेशस्य बुकारामाङ्गानगरे आयोजितायां अस्यां प्रतियोगितायां भारतीयदलम् चीनदेशेन कजाकि
कोलंबिया के बुकारामांगा में आयोजित 56वें अंतरराष्ट्रीय भौतिकी ओलंपियाड 2026 में स्वर्ण पदक विजेता पांचों भारतीय छात्र अपने टीम लीडरों और वैज्ञानिक पर्यवेक्षकों के साथ।


नव दिल्ली, 12 जुलाईमासः (हि.स.)।भारतेन ५६ तमे अन्ताराष्ट्रीयभौतिकीओलम्पियाडप्रतियोगितायां उत्कृष्टं प्रदर्शनं कृत्वा पञ्चसु अपि स्वर्णपदकेषु विजयः प्राप्तः। कोलम्बियादेशस्य बुकारामाङ्गानगरे आयोजितायां अस्यां प्रतियोगितायां भारतीयदलम् चीनदेशेन कजाकिस्तानदेशेन रूसदेशेन दक्षिणकोरियादेशेन ताइवानदेशेन च सह संयुक्तरूपेण विश्वे प्रथमस्थानम् अलभत। अस्यां प्रतियोगितायाम् ८७ देशेभ्यः ३८१ छात्राः सहभागिनः अभवन्।

स्वर्णपदकविजेतृषु पुणेनगरस्य कनिष्कजैनः इन्दौरनगरस्य ऋद्धेशअनन्तबेन्दाले नवीदिल्लीनगरस्य ऋषितगर्गः मुम्बईनगरस्य श्रेष्ठसुरैयाः अहमदाबादनगरस्य स्वरितजोशी च समाविष्टाः सन्ति।

परमाणुशक्तिविभागस्य अधीनस्थेन टाटामूलभूतसंशोधनसंस्थायाः राष्ट्रियकेन्द्रेण होमीभाभाविज्ञानशिक्षाकेन्द्रेण भारतीयदलस्य चयनं प्रशिक्षणं च कृतम्। एतत् केन्द्रं देशस्य राष्ट्रियओलम्पियाडकार्यक्रमस्य नोडलकेन्द्रम् अस्ति। एतत् विज्ञानगणितविषययोः प्रतिभासम्पन्नान् विद्यार्थिनः परिचिनोति तथा बहुस्तरीयचयनप्रक्रियया अभिमुखीकरणशिविरैः विशेषप्रशिक्षणेन च तान् अन्ताराष्ट्रियप्रतियोगिताभ्यः सज्जान् करोति।

परमाणुशक्तिविभागस्य सचिवः परमाणुशक्तिआयोगस्य अध्यक्षः च डा अजीतकुमारमोहन्ती छात्रान् तेषाम् अभिभावकान् शिक्षकारान् मार्गदर्शकान् च अभिनन्दन् उक्तवान् यत् अन्ताराष्ट्रियभौतिकीओलम्पियाडप्रतियोगितायां पञ्चस्वर्णपदकप्राप्तिः संयुक्तरूपेण विश्वे प्रथमस्थानप्राप्तिश्च समग्रदेशस्य गौरवस्य विषयः अस्ति। एषा उपलब्धिः भारतीयविद्यार्थिनां प्रतिभायाः समर्पणस्य वैज्ञानिकदृष्टेः च तथा होमीभाभाविज्ञानशिक्षाकेन्द्रस्य टाटामूलभूतसंशोधनसंस्थायाश्च ओलम्पियाडकार्यक्रमस्य उत्कृष्टसज्जतायाः प्रमाणम् अस्ति।

विभागेन भारतीयदलस्य दलनेता प्रो अन्वेषमजूमदारः होमीभाभाविज्ञानशिक्षाकेन्द्रटाटामूलभूतसंशोधनसंस्था डा लीनाजोशी सेन्टजेवियर्समहाविद्यालयम् मुम्बई वैज्ञानिकपर्यवेक्षकः प्रो आनन्ददासगुप्तः भारतीयविज्ञानशिक्षाअनुसन्धानसंस्थानम् कोलकाता निशाकेलकरः गोगटेजोगलेकरमहाविद्यालयम् रत्नागिरिः तथा होमीभाभाविज्ञानशिक्षाकेन्द्रस्य भौतिकीओलम्पियाडदलस्य मार्गदर्शकानां च एतस्याः सफलतायाः कृते अभिनन्दनम् अकरोत्।

होमीभाभाविज्ञानशिक्षाकेन्द्रस्य निदेशकः प्रो अर्नबभट्टाचार्यः उक्तवान् यत् विज्ञानगणितओलम्पियाडेषु भारतीयदलस्य निरन्तरसफलता अनेकदशकानां सुनियोजितसज्जतायाः मार्गदर्शनस्य परमाणुशक्तिविभागस्य निरन्तरसहयोगस्य च परिणामः अस्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani