Enter your Email Address to subscribe to our newsletters

तेहरानम्, १२ जुलाईमास: (हि.स.)। इस्लामिक-रिवोल्यूशन-गार्ड्स-कॉर्प्स इत्यस्य नौसेनया उद्घोषितं यत् होर्मुज-जलसन्धिः अग्रिमादेशपर्यन्तम् अवरुद्धः कृतः अस्ति। आईआरजीसी-अनुसारम् एषः निर्णयः क्षेत्रे विदेशीय-सैन्य-गतिविधीनां सुरक्षा-चिन्तानां च दृष्ट्या गृहीतः। संस्थया उक्तं यत् यावत् अमेरिकादेशः अस्मिन् क्षेत्रे स्वस्य सैन्य-हस्तक्षेपं न निरोधयति, तावत् जलसन्धिः अवरुद्ध: एव भविष्यति।
ईरानदेशस्य राजकीय-समाचार-सेवा प्रेस-टीवी इत्यस्य अनुसारं रविवासरे प्रकाशिते वक्तव्ये आईआरजीसी इत्यनेन उक्तं यत् होर्मुज-जलसन्धिः अग्रिमादेशपर्यन्तम् अवरुद्धः अस्ति, अमेरिकादेशस्य हस्तक्षेप-निवृत्तेः पूर्वं च न उद्घाट्यते। कस्यापि नौकायाः अनेन जलसन्धेः मार्गेण गमनस्य अनुमतिः न भविष्यति। संस्थया संचेतना अपि प्रदत्ता यत् यदि एतां स्थितिं ईरानदेशस्य विरुद्धं नूतन-सैन्य-अभियानस्य निमित्ततया उपयुज्यते, तर्हि तस्य कठोरं प्रत्युत्तरं प्रदास्यते।
आईआरजीसी इत्यनेन अपि उक्तं यत् सम्भाव्य-संघर्षस्य उत्तरदायित्वम् अमेरिकादेशस्य, इजरायलदेशस्य तथा तेषां देशानां भविष्यति, ये ईरानदेशस्य विरुद्धं सैन्य-अभियानार्थं स्वकीयानि सैन्य-स्थानानि प्रयच्छन्ति।
वक्तव्ये उक्तं यत् समीपे काले एकया नौकया ईरानी-निर्देशानाम् अवहेलनां कृत्वा स्वस्य नौकायान-स्थान-निर्धारण-प्रणाली अपि निष्क्रिया कृता। ततः संचेतनारूपेण गुटिकाप्रहारः कृतः। आईआरजीसी-अनुसारम् एतेन सामुद्रिक-सुरक्षायाः संकटः उत्पन्नः।
आईआरजीसी पुनरुक्तवान् यत् पूर्वमपि संचेतना प्रदत्ता आसीत् यत् होर्मुज-जलसन्धौ विदेशीय-हस्तक्षेपस्य तथा नौकायान-मार्गाणां तथाकथितस्य अवैध-निर्धारणस्य उत्तरं निर्णायक-कार्यवाह्या प्रदास्यते।
उल्लेखनीयम् अस्ति यत् ईरानदेशेन २८ फेब्रुवरी-मासात् परम् अस्य महत्त्वपूर्णस्य जलमार्गस्य अवरोधः कृतः, यदा अमेरिकादेशेन इजरायलदेशेन च ईरानदेशस्य उपरि सैन्य-आक्रमणं कृतम् आसीत्। ततः परं, यदा डोनाल्ड-ट्रम्प-महोदयेन ईरानी-नौकानां बन्दरगाहानां च तथाकथित-नौसैनिक-नाकाबन्दी निरन्तरं स्थापयितुं घोषणा कृता, तदा ईरानदेशेन स्वीया: नियन्त्रण-उपाया: अधिका: कृता:, यद्यपि अमेरिकादेशस्य राष्ट्रपतिना ७ एप्रिल-दिने युद्धविरामस्य घोषणापि कृता आसीत्।
मे-मासे ईरानदेशेन अस्मिन् सामरिक-जलसन्धौ समुद्री-यातायातस्य नियन्त्रणार्थम् आधिकारिकतया नूतना व्यवस्था प्रारब्धा। नौकाभ्यः संचेतनि दत्ता यत् ताः ईरानी-अधिकारिभिः सह स्वागमन-निर्गमन-योजनानां समन्वयं कुर्वन्तु तथा तेहरानेन निर्धारितस्य पर्यवेक्षण-क्षेत्रात् बहिः अन्येन मार्गेण गमनं मा कुर्वन्तु।
जून-मासे ईरान-अमेरिकादेशयोः मध्ये उत्पन्नानां युद्धपूर्ण-परिस्थितीनां शमनार्थम् एकः सन्धि: अभवत्। ततः अनन्तरं वाशिङ्गटन-प्रशासनेन नाकाबन्दी-निवृत्तेः कथनं कृतं किन्तु जलमार्गे सैन्य-उपस्थितेः निरन्तरतामपि स्वीकृतवती।
Hindusthan Samachar / Divya Ranjan