Enter your Email Address to subscribe to our newsletters

इस्तांबुलम्, 12 जुलाईमासः (हि.स.)।फिलिस्तीनी कॉलोनाइजेशन एण्ड वॉल रेजिस्टेन्स कमीशन पीसीडब्ल्यूआरसी इति संस्थया अभ्यधायि यत् इजराइलदेशेन जनवरीमासात् द्विसहस्रषड्विंशतिवर्षस्य आरभ्य अधिगृहीते वेस्ट बैंक प्रदेशे निजीफिलिस्तीनीभूमेः द्विसहस्रत्रिनवतिडुनमपरिमितां भूमिम् प्रभावितवन्तः एकोनपञ्चाशत् सैन्यादेशाः निर्गताः। एषा भूमिः प्रायः पञ्चशतसप्तदशएकडपरिमिता अस्ति।
तुर्कियादेशस्य सर्वकारीयसमाचारसंस्थायाः अनाडोलू इति वृत्तसंस्थायाः अनुसारं पीसीडब्ल्यूआरसी संस्थया उक्तं यत् एतेषां आदेशानां अन्तर्गतं भूमेः औपचारिकाधिग्रहणं स्वामित्वपरिवर्तनं वा न क्रियते किन्तु सुरक्षोपायानां नाम्ना तस्याः उपरि विविधाः प्रतिबन्धाः आरोप्यन्ते। तेषु वृक्षच्छेदनस्य शाखाछेदनस्य च अनुमतिः भूमेः समीपगमननिषेधः कृषिकार्यप्रतिबन्धश्च प्रमुखाः सन्ति।
प्रतिवेदने उक्तं यत् एते सैन्यादेशाः मुख्यतया इजराइली उपनिवेशेषु उपनिवेशान् संयोजयन्तीषु मार्गेषु पृथक्करणप्राचीरस्य सैन्यशिविराणां च समीपे प्रवर्त्यन्ते। आयोगस्य आरोपः अस्ति यत् एतैः उपायैः औपचारिकाधिग्रहणं विना फिलिस्तीनीभूमौ इजराइलदेशस्य नियन्त्रणं वर्ध्यते।
आयोगस्य प्रदत्ताङ्कानुसारं द्विसहस्रपञ्चविंशतिवर्षे षोडशशतत्रयोदशडुनमभूमिम् प्रभावितवन्तः सप्तचत्वारिंशत् सैन्यादेशाः निर्गताः। द्विसहस्रषड्विंशतिवर्षस्य प्रथमार्धे द्विसहस्रत्रिनवतिडुनमभूमिसम्बद्धाः एकोनपञ्चाशत् आदेशाः निर्गताः। आयोगस्य मते अनेन उपनिवेशविस्तारनीतिः तथा फिलिस्तीनिनां स्वभूमेः समीपगमनस्य सीमाकरणनीतिः अधिकवेगेन प्रवर्तते।
आयोगस्य षाण्मासिकप्रतिवेदने एतदपि अभ्यधायि यत् द्विसहस्रषड्विंशतिवर्षस्य प्रथमार्धे अधिगृहीते वेस्ट बैंक प्रदेशे त्रिसहस्रचतुःशताष्टाशीत्यधिकाः घटनाः अभिलेखिताः। तासु फिलिस्तीनीसमुदायेषु आक्रमणानि अग्निप्रयोगाः गोलीप्रहाराः भूम्यधिग्रहणप्रयत्नाः नूतनउपनिवेशनिकेतनस्थापनानि च समाविष्टानि सन्ति।
अन्यतः इजराइलदेशे उपनिवेशविरोधिन्या पीस नाउ इति संस्थायाः अनुमानेन अधिगृहीते वेस्ट बैंक प्रदेशे प्रायः पञ्चलक्षाः इजराइलीजनाः तथा पूर्वीययरुशलमप्रदेशे प्रायः द्विलक्षपञ्चाशत्सहस्रजनाः निवसन्ति।
फिलिस्तीनीप्रशासनस्य अनुसारम् अक्टोबरमासे द्विसहस्रत्रयोविंशतिवर्षे गाजायुद्धस्य प्रारम्भात् आरभ्य वेस्ट बैंक प्रदेशे हिंसाचारः सैन्याभियानानि च तीव्रतां गतानि। तेषां मते अस्मिन् काले एकसहस्रैकशतपञ्चसप्ततिः फिलिस्तीनीजनाः मृताः द्वादशसहस्रनवशतएकोनविंशतिः जनाः आहताः त्रयस्त्रिंशत्सहस्रजनाः विस्थापिताः प्रायः चतुर्विंशतिसहस्रजनाः गृहीताः च।--------------------
Hindusthan Samachar / Dheeraj Maithani