Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १२ जुलाईमासः (हि.स.)। केन्द्रीयसर्वकारः १३ जुलाईमासे अखिलभारतीय-जलसंसाधनविभागस्य सचिवानां सम्मेलनम् आयोजयिष्यते। अस्मिन् सम्मेलने राज्यानां केन्द्रशासित-प्रदेशानां च वरिष्ठसचिवैः सह जलसंसाधन-क्षेत्रस्य प्राथमिकप्रयत्नेषु चर्चा भविष्यति तथा प्रमुखराष्ट्रीय-कार्यक्रमाणां प्रगतेः समीक्षा अपि क्रियते।
केन्द्रीय-जलशक्तिमन्त्रालयस्य अनुसारम् एतत् सम्मेलनं जलसंसाधन-नदी-विकास-गङ्गासंरक्षणविभागेन आयोज्यते। सभायाः अध्यक्षतां केन्द्रीय-जलशक्तिमन्त्री सी.आर.पाटिलः करिष्यति, राज्यमन्त्री राजभूषणचौधरी तथा विभागस्य सचिवः वी.एल.कण्ठारावः सहाध्यक्षौ भविष्यतः। अस्मिन् सम्मेलने मन्त्रालयस्य अधीनस्थाः संस्थाः, यथा केन्द्रीयजलायोगः, राष्ट्रीयबन्धसुरक्षा-प्राधिकरणम्, राष्ट्रीयजलाभियानम् च सहभागिनः भविष्यन्ति।
सम्मेलने अष्टसु प्रमुखविषयेषु विचारविमर्शः भविष्यति। तेषु सिञ्चनक्षेत्रविकास-जलप्रबन्धन-योजनायाः आधुनिकीकरणम्, ‘कैच-द-रेन’ अभियानम्, सिञ्चन-जलप्लावन-प्रबन्धनपरियोजनानां संशोधित-मूल्याङ्कननिर्देशाः, बन्ध-जलाशयानां रूल-कर्व्स इत्यस्य कार्यान्वयनम्, राज्यजलसुधाररूपरेखा, बन्धसुरक्षाधिनियमः–२०२१ इत्यन्तर्गतं व्यापकं मूल्याङ्कनम्, सिञ्चनजन-गणनायाः प्रगतिः तथा आदर्शराज्य-जलपुरस्कारस्य रूपरेखा च समाविष्टाः सन्ति।
सभायां राज्यानि केन्द्रशासितप्रदेशाश्च सहभागिनः भविष्यन्ति। तत्र देशव्यापिनः जलसञ्चयस्य कार्यान्वयनसम्बद्धानां आह्वानानां विषये विचारविमर्शः भविष्यति। जलसंसाधनक्षेत्रे सुधाराणां गतिवर्धनार्थं समन्वितरणनीतेः निर्माणविषयेऽपि विस्तृता चर्चा भविष्यति।
Hindusthan Samachar / Divya Ranjan