Enter your Email Address to subscribe to our newsletters

कानपुरम्, 12 जुलाईमासः (हि.स.)। 'एकस्मिन् वृक्षः मातुः नाम्ना इति अभियानं केवलं रोपणपर्यन्तं न सीमितम् अस्ति, अपितु तेषां संरक्षणेन आगामिनीनां सन्ततीनां कृते स्वच्छं सुरक्षितं च पर्यावरणं निर्मातुं दृढसंकल्पः अस्ति। प्रत्येकेन नागरिकेन स्वजीवने न्यूनातिन्यूनम् एकः वृक्षः अवश्यं रोपणीयः तस्य सम्यक् पालनपोषणं च करणीयम्। एतानि वाक्यानि रविवासरे उत्तरप्रदेशस्य शासनस्य मन्त्रिमण्डलीयमन्त्री राकेश सचानः चन्द्रशेखर आजाद कृषि तथा प्रौद्योगिकी विश्वविद्यालये आयोजितस्य वृहद् वृक्षारोपणमहाभियानस्य उद्घाटनसमये उक्तवान्।
मन्त्री राकेश सचानः अवदत् यत् यदि वृक्षाः न भविष्यन्ति तर्हि पर्यावरणस्य सन्तुलनं नश्येत् प्राणवायोः उपलब्धिः अपि बाधिता भविष्यति। सः जनान् स्वगृहेषु स्वमोहल्लेषु विद्यालयेषु कार्यालयेषु अन्येषु च उपयुक्तस्थानेषु वृक्षान् रोपयितुं तेषां नियमितपालनपोषणं च कर्तुं प्रार्थितवान्।
सः अवदत् यत् जनप्रतिनिधीनां माध्यमेन निःशुल्काः रोपाः प्रदीयन्ते। जनसहभागितया एव कानपुरनगरं हरितं स्वच्छं प्रदूषणमुक्तं च कर्तुं शक्यते।
पञ्चशताधिकेषु स्थानेषु वृक्षारोपणम्
चन्द्रशेखर आजाद कृषि तथा प्रौद्योगिकी विश्वविद्यालयस्य परिसरे मन्त्री राकेश सचानेन मुख्यकार्यक्रमस्य आयोजनं कृत्वा वृहद् वृक्षारोपणमहाभियानस्य शुभारम्भः कृतः। तेन सह पञ्चशताधिकेषु चिह्नितेषु स्थानेषु पञ्चत्रिंशल्लक्षाणि चतुरशीतिसहस्राणि पञ्चशतानि षट्पञ्चाशत् वृक्षरोपाणां लक्ष्यं निर्धार्य अभियानस्य प्रारम्भः कृतः। अपरं जनपदस्य विविधेषु क्षेत्रेषु जनप्रतिनिधिभिः प्रशासनिकाधिकारिभिः विविधविभागानां अधिकारिभिः च वृक्षारोपणं कृत्वा अभियानं प्रवर्धितम्।
अस्य अभियानस्य अन्तर्गतं कानपुरे सप्त विषयाधारिताः वनप्रदेशाः विकसिताः भवन्ति। तदतिरिक्तं एकपञ्चाशत् गोआश्रयस्थलेषु गोकुलवाटिकाः अपि निर्मिताः सन्ति। अनेन पर्यावरणसंरक्षणस्य सह जैवविविधतायाः संवर्धनस्य अपि प्रयत्नः क्रियते।
अस्मिन् कार्यक्रमे अभियानस्य नोडलाधिकारी श्रमसेवायोजनविभागस्य प्रमुखसचिवः डा एम के षणमुगसुन्दरम् सांसदः रमेश अवस्थी अन्ये जनप्रतिनिधयः प्रशासनिकाधिकारिणः विविधविभागानां अधिकारिणः च वृक्षारोपणं कृत्वा जनान् पर्यावरणसंरक्षणे सहभागितां निर्वहितुं प्रार्थितवन्तः।-------------
Hindusthan Samachar / Dheeraj Maithani