विकसित भारतस्य निर्माणे नवाचारः पारदर्शितया सह अग्रे वर्धितं सीपीडब्ल्यूडी इत्येतत् : मनोहरलालः
नव दिल्ली, 12 जुलाईमासः (हि.स.)।केन्द्रीयआवासननगरकार्याणां मन्त्री मनोहरलालः उक्तवान् यत् भारतस्य वर्धमानाभिः आधारसंरचनासम्बद्धाभिः आकाङ्क्षाभिः पूर्त्यर्थं केन्द्रीयलोकनिर्माणविभागस्य भूमिका पूर्वस्मात् अपि अधिकमहत्त्वपूर्णा जाता अस्ति। विभागेन नव
नई दिल्ली में विज्ञान भवन में केंद्रीय लोक निर्माण विभाग (सीपीडब्ल्यूडी) के 172वें स्थापना दिवस समारोह में केंद्रीय आवासन एवं शहरी कार्य मंत्री मनोहर लाल।


नव दिल्ली, 12 जुलाईमासः (हि.स.)।केन्द्रीयआवासननगरकार्याणां मन्त्री मनोहरलालः उक्तवान् यत् भारतस्य वर्धमानाभिः आधारसंरचनासम्बद्धाभिः आकाङ्क्षाभिः पूर्त्यर्थं केन्द्रीयलोकनिर्माणविभागस्य भूमिका पूर्वस्मात् अपि अधिकमहत्त्वपूर्णा जाता अस्ति। विभागेन नवोन्मेषः आधुनिकतन्त्रज्ञानम् टिकाऊनिर्माणपद्धतयः पारदर्शिता च आश्रित्य उच्चगुणवत्तायुक्तानि निर्माणकार्याणि अग्रे नेतव्यानि।

मनोहरलालः रविवासरे अत्र विज्ञानभवने आयोजितं केन्द्रीयलोकनिर्माणविभागस्य द्विसप्तत्यधिकशततमं स्थापनादिवसमहोत्सवं सम्बोधितवान्। अस्मिन् अवसरे आवासननगरकार्याणां मन्त्रालयस्य सचिवः श्रीनिवासकातिकीथलः केन्द्रीयलोकनिर्माणविभागस्य महानिदेशकः सतिन्दरपालसिंहः च उपस्थितौ आस्ताम्।

मनोहरलालः उक्तवान् यत् सार्धशताधिकवर्षेभ्यः केन्द्रीयलोकनिर्माणविभागः भारतस्य आधारसंरचनाविकासे अग्रणीं भूमिकां निर्वहति। विभागेन अनेकानि संस्थानानि सार्वजनिकसम्पदः प्रतिष्ठितभवनानि च निर्माय देशस्य विकासे महत्त्वपूर्णं योगदानं दत्तम्।

तेन उक्तं यत् प्रधानमन्त्री नरेन्द्रमोदिनः विकसितभारतस्य परिकल्पनां साकारयितुं केन्द्रीयलोकनिर्माणविभागेन सङ्कल्पभावनया अग्रे गन्तव्यम्। तेन सङ्कल्पस्य अर्थः गतिः सुगमता सदाशयता कर्तव्यनिष्ठा तन्त्रज्ञानस्य स्वीकरणम् लोकहितम् पारदर्शिता चेति निरूप्य उक्तं यत् एतादृश्या चिन्तनपद्धत्या नागरिककेन्द्रितस्य कालस्य परीक्षायां सफलस्य आधारसंरचनायाः निर्माणं कर्तुं शक्यते।

अस्मिन् अवसरे केन्द्रीयलोकनिर्माणविभागस्य महानिदेशकः सतिन्दरपालसिंहः उक्तवान् यत् विभागस्य द्विसप्तत्यधिकशतवर्षपूर्तिः समग्रस्य केन्द्रीयलोकनिर्माणविभागपरिवारस्य कृते गौरवस्य क्षणः अस्ति। तेन विभागस्य वर्तमानान् सेवानिवृत्तान् च अधिकारिणः कर्मचारिणः च अभिनन्द्य उक्तं यत् तेषां समर्पणेन व्यावसायिकदक्षतया कठिनपरिश्रमेण च अयं संस्थानः नूतनशिखराणि प्राप्तवान् अस्ति।

--------------

Hindusthan Samachar / Dheeraj Maithani