Enter your Email Address to subscribe to our newsletters

– ५१ सहस्र-वर्षाजल-सञ्चयन-एककानां स्थापनायाः महाभियानस्यापि शुभारम्भः भविष्यति।
भोपालनगरम्, १२ जुलाईमास: (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः अद्य रविवासरे प्रधानमन्त्रिणः नरेन्द्रमोदिनः आह्वानेन सञ्चाल्यमानस्य एकः पादपः मातुः नाम्ना अभियानस्य अन्तर्गतं इन्दौर-नगरे पितृपर्वतस्य पुरतः स्थिते बीएसएफ-परिसरे बुडानिया-ग्रामे २१ लक्ष-पादपानां रोपणस्य तथा ५१ सहस्र-वर्षाजल-सञ्चयन-एककानां स्थापनायाः महाभियानस्य शुभारम्भं करिष्यति।
जनसम्पर्क-अधिकारी महिपाल-अजय-महोदयः अवदत् यत् अस्मिन् कार्यक्रमे नगरीय-विकास-आवास-मन्त्री कैलाश-विजयवर्गीयः, इन्दौर-महापौरः पुष्यमित्र-भार्गवः, अन्ये जनप्रतिनिधयः तथा गणमान्य-नागरिका: उपस्थिताः भविष्यन्ति।
सः अवदत् यत् एकः पादपः मातुः नाम्ना अभियानस्य अन्तर्गतं आयोजितम् एतत् महाभियानं पर्यावरण-संरक्षणस्य, हरित-विकासस्य तथा जल-संवर्धनस्य जनान्दोलन-रूपे परिणमयितुं महत्त्वपूर्ण: प्रयत्न: अस्ति। अस्य अभियानस्य अन्तर्गतं व्यापकस्तरे पादपारोपणेन सह ५१ सहस्र-वर्षाजल-सञ्चयन-एककानां स्थापना अपि क्रियते, येन वर्षाजलस्य संरक्षणं प्रोत्साह्यते।
अस्मिन् अवसरे जनप्रतिनिधीनां, विविध-सामाजिक-स्वयंसेवी-संस्थानां, विद्यार्थिनां तथा बहुसंख्यक-नागरिकाणां सहभागिता भविष्यति। नागरिकेभ्यः आह्वानं कृतम् यत् ते अस्मिन् महाभियाने अधिकाधिक-संख्यया सहभागीभूय पर्यावरण-संरक्षणस्य जल-संवर्धनस्य च संकल्पं सुदृढीकुर्युः।
Hindusthan Samachar / Divya Ranjan