Enter your Email Address to subscribe to our newsletters

– भिण्ड-जनपदस्य लहार-नगरस्य कार्यक्रमे ३२२ कोटि-रूप्यकेभ्यः अधिक-मूल्यानां विकास-कार्याणां लोकार्पणं भूमिपूजनं च भविष्यति।
भोपालनगरम्, १२ जुलाईमासस्य (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः अद्य रविवासरे भिण्ड-जनपदस्य लहार-नगरे आयोजिते राज्यस्तरीय-कार्यक्रमे ‘मुख्यमन्त्री-लाडली-भगिनी-योजनाया:’ अन्तर्गतं प्रदेशस्य प्रायः १ कोटि: २५ लक्षं १५ सहस्राधिकानां भगिनीनां धनागारेषु एकस्मिन् क्लिक-माध्यमेन १८३५ कोटि-रूप्यकेभ्यः अधिकां राशिं प्रत्यक्षतया स्थानान्तरयिष्यति।
जनसम्पर्क-अधिकारिणी बिन्दु-सुनील-महोदया अवदत् यत्, राज्यसर्वकारस्य अस्याः अत्यन्त-लोकप्रियायाः योजनायाः अन्तर्गतं लाभार्थिनीभ्यः महिलाभ्यः योजनायाः आरम्भात् अष्टात्रिंशत्तमस्य नियमित-मासिक-पर्यायस्य वितरणं क्रियते। राज्यसर्वकारेण २०२५ तमस्य वर्षस्य नवम्बर-मासात् मासिक-आर्थिक-सहायतायां २५० रूप्यकाणां वृद्धिः कृता। तदनन्तरं सर्वाभ्यः योग्याभ्यः हितग्राहिणीभ्यः प्रतिमासं १५०० रूप्यकाणां निरन्तरा वित्तीय-सहायता प्रदीयते। योजनायाः प्रारम्भात्, अर्थात् २०२३ तमस्य वर्षस्य जून-मासात् आरभ्य २०२६ तमस्य वर्षस्य जून-मासपर्यन्तं, सर्वकारेण आहत्य ३७ नियमित-पर्यायाणां सफलतया प्रत्यक्ष-स्थानान्तरणं कृतम्।
सा पुनरवदत् यत्, मुख्यमन्त्री डॉ. मोहनयादवः कार्यक्रमे २३८.९६ कोटि-रूप्यक-व्ययेन सम्पन्नानां ४० विविध-विकास-कार्याणां लोकार्पणं करिष्यति। तथा च क्षेत्रस्य आधारभूत-संरचनां भविष्यस्य आवश्यकतानुसारम् अधिकां सुदृढां कर्तुं ८३.३३ कोटि-रूप्यक-व्यययुक्तानां १६ नवीन-लोककल्याण-परियोजनानां भूमिपूजनं शिलान्यासं च करिष्यति।
Hindusthan Samachar / Divya Ranjan