Enter your Email Address to subscribe to our newsletters

- कैटस्य जिला इकाई द्वारा आयोजितः “व्यापार उद्योग संवादः”सम्मिलितः प्रभारी मंत्री
ग्वालियरम्, 12 जुलाईमासः (हि.स.)। मध्यप्रदेशस्य जलसम्पदामन्त्री तथा ग्वालियरजिलस्य प्रभारीमन्त्री तुलसीराम सिलावट अवदत् यत् प्रदेशसर्वकारः सर्वदा वणिजां उद्योगिनां च सह तिष्ठति। सर्वकारः समयबद्धकार्यक्रमस्य अन्तर्गतं उद्योगिनां समस्यासमाधानाय दृढसंकल्पितः अस्ति।
मन्त्री सिलावटः रविवासरे ग्वालियरनगरे कैट कॉन्फेडरेशन ऑफ ऑल इण्डिया ट्रेडर्स इत्यस्य जिलैककायाः आयोजने सम्पन्ने व्यापार उद्योग संवाद कार्यक्रमे उपस्थितान् नगरस्य उद्योगिनः वणिजश्च सम्बोधयन् आसीत्। सः बहुसंख्यकेभ्यः उपस्थितेभ्यः व्यवसायेभ्यः आश्वासनं दत्तवान् यत् तेषां समस्यासमाधानार्थं प्रत्येकेषु त्रिषु मासेषु उपवेशनं आयोजयिष्यते। केन्द्रीय सञ्चारमन्त्री तथा पूर्वोत्तरक्षेत्रविकासमन्त्री ज्योतिरादित्य सिंधिया विशेषरूपेण प्रत्येकत्रिमासे एतादृशस्य उपवेशनस्य आयोजनस्य पहलां कृतवान्।
प्रभारीमन्त्री सिलावटः अवदत् यत् मुख्यमन्त्रिणः डा. मोहन यादवस्य नेतृत्वे प्रदेशसर्वकारः निरन्तरम् एतादृशं वातावरणं निर्माति येन उद्योगनिवेशाय पर्याप्ताः अवसराः प्राप्यन्ते। सः अवदत् यत् कस्यापि राज्यस्य अर्थव्यवस्था केवलं सर्वकारस्य प्रयासैः न, अपितु सर्वकारस्य, प्रशासनस्य, उद्योगस्य, व्यापारजगतः च सामूहिकसहयोगेन एव प्रगतिं प्राप्नोति। संवादः एव सः माध्यमः अस्ति यस्मात् समस्यासमाधानं निष्पद्यते तथा विकासस्य नवीनाः सम्भावनाः उत्पद्यन्ते।
सः अवदत् यत् प्रदेशसर्वकारेण उद्योगप्रोत्साहनार्थं प्रभाविणः उपायाः स्वीकृताः सन्ति। अस्य क्रमस्य अन्तर्गतं इन्वेस्टर समिट इत्यस्य सह क्षेत्रीयस्तरपर्यन्तम् औद्योगिक कॉन्क्लेवस्य आयोजनं कृतम्, यस्य परिणामस्वरूपं प्रदेशे विशालपरिमाणेन औद्योगिकनिवेशः प्राप्तः। सर्वकारेण गतवर्षम् औद्योगिकवर्षरूपेण आचरितम्।
सः अवदत् यत् प्रधानमन्त्रिणा नरेन्द्रमोदिना वर्ष २०४७ पर्यन्तं देशं विकसितभारतरूपेण निर्मातुं संकल्पः कृतः। अस्मिन् कार्ये उद्योगिनां वणिजां च महत्त्वपूर्णा भूमिका भविष्यति। सिलावटः अवदत् यत् सर्वकारस्य लक्ष्यं केवलम् आर्थिकविकासः न, अपितु समावेशी संतुलितश्च विकासः अस्ति, यस्मिन् वणिजः, उद्योगिनः, युवानः, कृषकाः तथा प्रदेशस्य प्रत्येकः नागरिकः सहभागित्वं वहति इति सुनिश्चितं क्रियते।
स्थानीयवासगृहे आयोजिते व्यापारिसंवादकार्यक्रमे कैट इत्यस्य राष्ट्रीयसङ्गठनमन्त्री भूपेन्द्र जैन, भाजपा जिलाध्यक्षः जयप्रकाश राजौरिया, मेला प्राधिकरणस्य उपाध्यक्षः उदयवीरसिंह गुर्जर, जीडीए इत्यस्य उपाध्यक्षः सुधीर गुप्तः, नगरनिगमस्य अपरायुक्तः प्रदीप तोमर, कैट जिलैककायाः अध्यक्षः मुकेश अग्रवाल, महामन्त्री रामकुमार गोयल, कोषाध्यक्षः नितिन गोयल, कार्यक्रमसंयोजकः आकाश जैन तथा राजू कुकरेजा, अजय मंगल, श्याम शुक्लः सहिताः कैट इत्यस्य अन्ये पदाधिकारी मञ्चासीनाः आसन्।
भाजपा जिलाध्यक्षः जयप्रकाश राजौरिया अवदत् यत् केन्द्रसर्वकारः तथा राज्यसर्वकारः वणिजां उद्योगिनां च हितानां सम्यक् ध्यानं धारयतः। सः अवदत् यत् सर्वकारेण उद्योगप्रोत्साहनार्थं सर्वथा आवश्यकसहायता प्रदीयते। नगरनिगमस्य अपरायुक्तः प्रदीप तोमर अवदत् यत् उद्योगिनः विकासस्य मेरुदण्डाः भवन्ति। नगरस्य सुनियोजितविकासाय प्रत्येकस्य नागरिकस्य सहयोगः आवश्यकः। ग्वालियरनगरं सुन्दरं विकसितं च कर्तुं वणिजः अग्रे आगच्छन्तु। नगरनिगमेन तेषां समस्याः शीघ्रतया समाधास्यन्ते।
उद्योगिभिः सह प्रत्यक्षसंवादं कृत्वा तेषां समस्यासमाधानस्य आश्वासनं प्रभारीमन्त्री तुलसीराम सिलावटः एकैकशः विविधेषाम् उद्योगिनां समस्याः अशृणोत्। सः समयबद्धकार्यक्रमस्य अन्तर्गतं तासां समस्याणां निराकरणस्य आश्वासनमपि दत्तवान्। अञ्जलि बत्रा ग्वालियरस्य उत्पादानां कृते एक्जीविशन सेन्टरस्य निर्माणं तथा महिला औद्योगिकक्षेत्रस्य स्थापनस्य आग्रहं कृतवती। प्रभारीमन्त्री अवदत् यत् ग्वालियरमेलापरिसरे एक्जीविशन सेन्टरस्य विकासः क्रियमाणः अस्ति। महिला औद्योगिकक्षेत्रस्य विकासविषये सर्वकारः गम्भीरतया प्रयासं करिष्यति।
लघुउद्योगभारती इत्यस्य मध्यभारतप्रान्ताध्यक्षः सोबरनसिंह तोमरः नगरस्य शङ्करपुर औद्योगिकक्षेत्रे जलभरावसमस्यायाः समाधानं तथा विविधेषु उद्योगक्षेत्रेषु मार्गाणां स्थितेः विषये ध्यानम् आकर्षितवान्। प्रभारीमन्त्री सिलावटः अवदत् यत् अस्मिन् विषये नगरनिगमस्य जिलाप्रशासनस्य च अधिकारिणः पूर्वमेव निर्देशिताः सन्ति।
एवमेव केचन उद्योगिनः रियल एस्टेट सम्बन्धिन्याः एफएआर विसंगतेः निवारणस्य आग्रहं कृतवन्तः। प्रभारीमन्त्री अवदत् यत् अस्मिन् विषये शीघ्रमेव भोपालनगरे मुख्यमन्त्रिणा, विभागीयमन्त्रिणा तथा प्रमुखसचिवेन सह चर्चा भविष्यति। ग्वालियरजिलस्य प्रतिनिधिमण्डलमपि तेन सह उपस्थितं भविष्यति।
---------------
Hindusthan Samachar / Dheeraj Maithani