पुरी शंकराचार्य स्वामी निश्चलानंद सरस्वत्याः 84तमे प्राकट्य दिवसे मोहन माझी अकरोत् श्रद्धापूर्वकं नमनम्
भुवनेश्वरम्, 12 जुलाईमासः (हि.स.)। ओडिशायाः मुख्यमन्त्री मोहनचरण माझी श्रीगोवर्धनमठस्य पुरीपीठाधीश्वरं जगद्गुरुं शङ्कराचार्यं स्वामिनं निश्चलानन्दसरस्वतीमहाराजं चतुरशीतितमे प्राकट्यदिवसे श्रद्धापूर्वकं प्रणनाम। मुख्यमन्त्री सामाजिकमाध्यमे प्रकाशि
पुरी शंकराचार्य स्वामी निश्चलानंद सरस्वती (फाइल फोटो)


भुवनेश्वरम्, 12 जुलाईमासः (हि.स.)।

ओडिशायाः मुख्यमन्त्री मोहनचरण माझी श्रीगोवर्धनमठस्य पुरीपीठाधीश्वरं जगद्गुरुं शङ्कराचार्यं स्वामिनं निश्चलानन्दसरस्वतीमहाराजं चतुरशीतितमे प्राकट्यदिवसे श्रद्धापूर्वकं प्रणनाम। मुख्यमन्त्री सामाजिकमाध्यमे प्रकाशिते स्वसन्देशे उक्तवान् यत् सः पूज्यजगद्गुरोः श्रीचरणयोः भक्तिपूर्णं प्रणामम् अर्पयति। तेन प्रार्थिता यत् महाप्रभोः श्रीजगन्नाथस्य पूज्यजगद्गुरोश्च अनुग्रहेण ओडिशाराज्यं सुखशान्तिसमृद्धिप्रगतिमार्गे निरन्तरम् अग्रे गच्छतु। मुख्यमन्त्री स्वसन्देशे राज्यस्य सर्वाङ्गीणविकासाय जनकल्याणाय च भगवानः श्रीजगन्नाथस्य जगद्गुरोः शङ्कराचार्यस्य च अनुग्रहः सदा अवतिष्ठतामिति कामनामपि व्यक्तवान्।

---------------

Hindusthan Samachar / Dheeraj Maithani