नेपालम् : बालेन्द्र सर्वकारस्य विरुद्धानां छात्र संगठनानां प्रदर्शनम्
काठमांडूः, 12 जुलाईमासः (हि.स.)। नेपालदेशस्य राजधानी काठमाण्डूनगरे एकस्य व्यक्तेः दिवाकाले आत्मदाहप्रयत्नानन्तरं मृत्युः अभवत् इति घटना अधुना व्यापकचर्चायाः विषयः अभवत्। अस्याः घटनायाः विरोधे काठमाण्डूनगरे छात्रसङ्गठनानि रविवासरप्रातःकालात् एव सर
काठमांडू में बालेन सरकार के खिलाफ प्रदर्शन


काठमांडूः, 12 जुलाईमासः (हि.स.)।

नेपालदेशस्य राजधानी काठमाण्डूनगरे एकस्य व्यक्तेः दिवाकाले आत्मदाहप्रयत्नानन्तरं मृत्युः अभवत् इति घटना अधुना व्यापकचर्चायाः विषयः अभवत्। अस्याः घटनायाः विरोधे काठमाण्डूनगरे छात्रसङ्गठनानि रविवासरप्रातःकालात् एव सर्वकारविरुद्धं प्रदर्शनम् आरब्धवन्ति।

काठमाण्डूनगरस्य मैतीघरमण्डलाक्षेत्रे अनेकानि छात्रसङ्गठनानि संयुक्तरूपेण विरोधप्रदर्शनम् अकुर्वन्। एतत् प्रदर्शनं मुगुजनपदस्य पञ्चविंशतिवर्षीयस्य गणेशनेपाली इत्यस्य मृत्योः विरोधार्थम् आयोजितम्। सः स्वदेहे अग्निं प्रज्वाल्य आत्मदाहप्रयत्नम् अकरोत् तथा च चिकित्साकाले तस्य निधनम् अभवत्।

यदा प्रदर्शनकारिणः मैतीघरप्रदेशात् अग्रे गन्तुम् अयतन्त तदा पुलिसकर्मिभिः प्रदर्शनकारिभिः च सह किञ्चित्कालं यावत् परस्परं धक्कामुक्की अभवत्। स्थितेः नियन्त्रणार्थं पुलिसकर्मिभिः प्रदर्शनकारिणः अग्रे गन्तुं निवारिताः। किन्तु अल्पकालानन्तरं स्थितिः पुनः सामान्याभवत्।

गणेशनेपाली शुक्रवासरे काठमाण्डूनगरस्य त्रिपुरेश्वरप्रदेशस्थितस्य पारपत्रविभागस्य बहिः स्वदेहे पेट्रोलं सिञ्चित्वा स्वयम् अग्निं प्रज्वालयत्।

अस्याः घटनायाः अनन्तरं एकः चलच्चित्रांशः अपि प्रकाशम् आगतः यस्मिन् काठमाण्डूमहानगरपुलिसकर्मिणः गणेशनेपाली च तस्य मोटरयानस्य चक्रबन्धनयन्त्रविषये विवादं कुर्वन्तौ दृश्येते।

चलच्चित्रांशे दृश्यते यत् महानगरपुलिसकर्मिभिः गणेशनेपाली मोटरयाने उपविष्टः सन् एव तस्य मोटरयाने चक्रबन्धनयन्त्रं स्थापितम्।

ततः परं यदा महानगरकर्मचारिणः तत् मोटरयानं वाहने आरोपयितुम् आरब्धवन्तः तदैव गणेशनेपाली स्वदेहे पेट्रोलं सिञ्चित्वा स्वयम् अग्निं प्रज्वालयत्।

गम्भीररूपेण दग्धः गणेशनेपाली तत्कालमेव वीरचिकित्सालये प्रविष्टः। सर्वकारः उत्तमचिकित्सार्थं तम् भारतदेशं प्रेषयितुं सज्जः आसीत् किन्तु अतिगम्भीरदाहकारणात् तस्य निधनम् अभवत्।

---------------

Hindusthan Samachar / Dheeraj Maithani