Enter your Email Address to subscribe to our newsletters

जोधपुरनगरम्, १२ जुलाईमासः (हि.स.)। जोधपुरविमानस्थानकस्य नवनिर्मित-यात्रिकान्तःपुरात् रविवासरस्य प्रातःकाले नियमितविमानसेवानां सञ्चालनम् आरब्धम्। प्रथमविमानेन जोधपुरम् आगतानां यात्रिणां राजस्थानी-परम्परानुसारं कुमकुम-तिलकेन, मृदङ्ग-स्थालीका-मङ्गल-ध्वनिना तथा लङ्गा-माङ्गणियार-कलाकाराणां लोककलाप्रस्तुतिभिः हार्दिकं स्वागतं कृतम्।
अस्मिन् अवसरे केन्द्रीयसंस्कृति-पर्यटनमन्त्री गजेन्द्रसिंहशेखावतः प्रथम-विमानस्य यात्रिणां स्वागतं कृत्वा शुभकामनाः प्रदत्तवान्। प्रथमविमानस्य यात्रिणे चन्द्रवीरसिंहाय तेन यात्रापत्रं तथा स्वागतसामग्री उपहाररूपेण प्रदत्ता। अस्य ऐतिहासिकावसरस्य स्मरणार्थं शेखावतः यात्रिभिः सह केकम् अपि अच्छिनत्। पत्रकारैः सह संवादे सः अवदत् यत् नूतनयात्रिकान्तःपुरेण यात्रिणः आधुनिक-सुविधाभिः सह उत्कृष्टतरं यात्रानुभवं प्राप्स्यन्ति तथा जोधपुरम् आगच्छन् निर्गच्छन् च प्रत्येकं जनः नगरस्य सकारात्मकीं प्रतिच्छायां नेष्यति।
तेन स्मारितं यत् गतमासे ४ जुलाईमासे नूतनयात्रिकान्तःपुरस्य उद्घाटनसमये १२ जुलाई दिनाङ्कात् नियमितसञ्चालनस्य आरम्भः भविष्यतीति यत् वचनं दत्तम्, तत् समये एव पूर्णीकृतम्। केन्द्रीयमन्त्री अवदत् यत् २०१४ तमस्य वर्षस्य अपेक्षया अधुना जोधपुरविमानस्थानके यात्रिणां विमानानां च सङ्ख्या दशगुणाधिकं वर्धिता अस्ति। सम्प्रति जोधपुरं भारतस्य प्रायः सर्वैः प्रमुखनगरैः वायुमार्गेण सम्बद्धम् अस्ति, पर्यटन-ऋतौ च अस्य सम्पर्कव्यवस्था अधिकं सुदृढा भवति। सः विश्वासं व्यक्तवान् यत् अग्रिमेषु कालेषु विमानानां गन्तव्यस्थानानां च सङ्ख्या अधिकं वर्धिष्यते।
शेखावतः अवदत् यत् नूतनयात्रिकान्तःपुरं भविष्यस्य आवश्यकतानां दृष्ट्या निर्मितम् अस्ति। आवश्यकता उत्पन्नायां न्यून-परिवर्तनेन एव एतत् अन्ताराष्ट्रिय-यात्रिकान्तःपुरत्वेन अपि विकसितुं शक्यते। तेन एतदपि उक्तं यत् गतदश-द्वादशवर्षेषु जोधपुराय द्वि-चत्वारिंशत् नूतनरेलयानसेवाः प्रदत्ताः, येन अस्य क्षेत्रस्य सम्पर्कव्यवस्था निरन्तरं सुदृढा अभवत्।
संवादस्य समये यदा तस्मात् जोधपुरस्य प्रिय-लवणीयभोजनस्य मिष्टान्नस्य च विषये पृष्टम्, तदा सः स्मितपूर्वकम् अवदत् यत् चौधरी-निर्मितः मरिचीका-बडा, सूरसागर-प्रदेशस्य अभ्यूषः, पलाण्डु-कचौरी तथा चतुर्भुज-निर्मिताः गुलाब-जामुन इत्यादयः जोधपुरस्य समृद्ध-स्वादपरम्परायाः अविभाज्याङ्गानि सन्ति।
Hindusthan Samachar / Divya Ranjan