मुख्यमन्त्रिणा योगिना 'वृक्षारोपण-महायज्ञस्य' शुभारम्भः कृतः, मध्याह्नद्वादशवादनपर्यन्तं १६ कोटि-पादपाः रोपिताः
लखनऊनगरम्, १२ जुलाईमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः रविवासरे गोरखपुरे ''पवित्र-त्रिवेणी''-नामकान् पादपान् रोपयित्वा ''वृक्षारोपण-महायज्ञ-२०२६'' इत्यस्य शुभारम्भम् अकरोत्। अस्मिन् अवसरे वनमन्त्री डॉ. अरुणकुमार-सक्सेना
गोरखपुर में पौधा लगाते मुख्यमंत्री


छात्रों से बातचीत करते मुख्यमंत्री योगी आदित्यनाथ


लखनऊनगरम्, १२ जुलाईमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः रविवासरे गोरखपुरे 'पवित्र-त्रिवेणी'-नामकान् पादपान् रोपयित्वा 'वृक्षारोपण-महायज्ञ-२०२६' इत्यस्य शुभारम्भम् अकरोत्। अस्मिन् अवसरे वनमन्त्री डॉ. अरुणकुमार-सक्सेना अपि उपस्थितः आसीत्।

मुख्यमन्त्रिणा विकास-वाटिकायाः स्थापना कृता, वनविभागस्य तत्त्वावधाने वानिकी-आधारित-पञ्चाङ्गस्य विमोचनं कृतम्, तथा च 'मौलश्री'-नामकं पादपन रोपयित्वा 'हरित-उत्तरप्रदेशः' इति पवित्रसङ्कल्पाय नूतना ऊर्जा प्रदत्ता। तेनैव मुख्यमन्त्री-आवास-योजनायाः लाभार्थिभ्यः पादपाः वितरिताः, वनाच्छादन-अभियाने महत्त्वपूर्णां भूमिकां निर्वहद्भ्यः महनीयजनेभ्यः धनाहरणपत्रम् अपि प्रदत्तम्।

अस्मिन् अवसरे मुख्यमन्त्री अवदत्— अहं प्रदेशवासिनः आह्वयामि यत् सर्वे 'वृक्षारोपण-महायज्ञ-२०२६' इत्यस्मिन् सहभागिनः भवन्तु। यूयं यत्र कुत्रापि स्थिता भवथ, तत्र एकं वृक्षं रोपयन्तु, तस्य संरक्षणं च कुर्वन्तु। स्वमातुः तथा भूमेः मातरं प्रति कृतज्ञतां प्रदर्शयन्तः न्यूनातिन्यूनम् 'मातुः नाम्ना एकः वृक्षः' इति भावेन एकं वृक्षम् अवश्यं रोपयन्तु, तथा च ३५ कोटि-पादपारोपणस्य अस्य हरित-महायज्ञस्य जनसहभागीताया: सफलतां सुनिश्चितां कुर्वन्तु।

कार्यक्रमे सम्बोधनं कुर्वन् योगी आदित्यनाथः अवदत् यत् उत्तरप्रदेशः स्वस्य वनाच्छादनस्य विस्तारकरणे अपि सफलतां प्राप्तवान्। गत-नववर्षेषु उत्तरप्रदेशे २४२ कोटि-पादपानां रोपणं सम्पन्नम्। सः अवदत् यत् प्रकृतेः असन्तुलनस्य सन्तुलनाय पर्यावरणं प्रति प्रत्येकं नागरिकेण स्वकर्तव्यस्य सम्यक् निर्वहनम् अत्यावश्यकम्। मध्याह्नद्वादश-वादनपर्यन्तं प्रदेशस्य सर्वेषु भागेषु १६ कोटि-पादपाः रोपिताः।

Hindusthan Samachar / Divya Ranjan