वृक्षारोपण महायज्ञ: उत्तरप्रदेशे 10वादनं यावद्रोपिताः 10 कोटिसंख्यकपादपाः
लखनऊ, 12 जुलाईमासः (हि.स.)। वृक्षारोपणमहायज्ञः २०२६ ‘एकं वृक्षं मातुः नाम्ना’ अभियानस्य अन्तर्गतं अद्य सम्पूर्णे प्रदेशे वृक्षारोपणकार्यक्रमः प्रवर्तते। मुख्यमन्त्री योगी आदित्यनाथः गोरक्षपुरे वृक्षारोपणं कृत्वा अभियानस्य शुभारम्भम् अकरोत्। प्रदे
पोस्टर


गोरखपुर में पौधा लगाते मुख्यमंत्री


लखनऊ, 12 जुलाईमासः (हि.स.)।

वृक्षारोपणमहायज्ञः २०२६ ‘एकं वृक्षं मातुः नाम्ना’ अभियानस्य अन्तर्गतं अद्य सम्पूर्णे प्रदेशे वृक्षारोपणकार्यक्रमः प्रवर्तते। मुख्यमन्त्री योगी आदित्यनाथः गोरक्षपुरे वृक्षारोपणं कृत्वा अभियानस्य शुभारम्भम् अकरोत्।

प्रदेशे एकस्मिन्नेव दिने पञ्चत्रिंशत्कोटि पौधानां रोपणं क्रियते। वृक्षारोपणस्य प्रगतिः प्रदेशस्य सर्वैः जनपदैः वनविभागस्य माध्यमेन सञ्चाल्यमाने वृक्षारोपणसॉफ्टवेयरे ऑनलाइनरूपेण उपारोप्यते। वनविभागस्य अनुसारेण प्रातः दशवादनपर्यन्तं सम्पूर्णे प्रदेशे दशकोटि पादपाः रोपिताः सन्ति। वनमन्त्री डॉ अरुणकुमार सक्सेनः ‘एकं वृक्षं मातुः नाम्ना’ इति अभियानस्य अन्तर्गतं वृक्षारोपणाय सर्वसामान्यजनान् प्रति आह्वानम् अकरोत्।

---------------

Hindusthan Samachar / Dheeraj Maithani