विश्व युवा कौशल दिवसे प्रयागराजे 14 जुलाई तमे दिनांके जीविकामेला, 20तः अधिकसंस्थाः करिष्यन्ति 3000 पदेषु नियुक्तिः
प्रयागराजः, 12 जुलाईमासः (हि.स.)।विश्वयुवकौशलदिवसस्य अवसर उपलक्ष्ये उत्तरप्रदेशकौशलविकासमिशनस्य राजकीयआईटीआई च संयुक्ततत्त्वावधानेन १४ जुलै २०२६ दिनाङ्के प्रातः नववादनात् सायं चतुर्वादनपर्यन्तं मवैया नैनीस्थे माँगायत्रीमहाविद्यालये वृहद्रोजगारमेलस्
पंजीकरण कराने के लिए जारी बार कोड का छाया चित्र


रोजगार मेले की प्रतिकात्मक छाया चित्र


प्रयागराजः, 12 जुलाईमासः (हि.स.)।विश्वयुवकौशलदिवसस्य अवसर उपलक्ष्ये उत्तरप्रदेशकौशलविकासमिशनस्य राजकीयआईटीआई च संयुक्ततत्त्वावधानेन १४ जुलै २०२६ दिनाङ्के प्रातः नववादनात् सायं चतुर्वादनपर्यन्तं मवैया नैनीस्थे माँगायत्रीमहाविद्यालये वृहद्रोजगारमेलस्य आयोजनं भविष्यति। एतत् रविवासरे उत्तरप्रदेशकौशलविकासमिशनस्य जिलासमन्वयकः अशोककुमारः अवदत्।

सः अवदत् यत् मेले निजीक्षेत्रस्य विंशत्यधिकाः प्रतिष्ठिताः संस्थाः सहभागं करिष्यन्ति तथा च प्रायः त्रिसहस्रेषु रिक्तपदेषु योग्याभ्यर्थिनां चयनं करिष्यन्ति।

रोजगारमेलापके कनिष्ठमाध्यमिकविद्यालय उत्तीर्णाः माध्यमिकोत्तीर्णाः स्नातकाः आईटीआई डिप्लोम बीटेक तथा उत्तरप्रदेशकौशलविकासमिशनस्य अन्तर्गतं प्रशिक्षिताः अष्टादशतः पञ्चत्रिंशद्वर्षपर्यन्तवयस्काः अभ्यर्थिनः सहभागं कर्तुं शक्नुवन्ति। अभ्यर्थिभिः स्वीयानि सर्वाणि शैक्षणिकप्रमाणपत्राणि अङ्कपत्राणि जातिप्रमाणपत्रस्य प्रतिलिपयः अन्ये आवश्यकदस्तावेजाश्च सह आनेतव्याः। इच्छुकाः अभ्यर्थिनः प्रकाशितक्यूआरकोडस्य माध्यमेन अपि स्वपञ्जीकरणं कारयितुं शक्नुवन्ति।

उत्तरप्रदेशकौशलविकासमिशनस्य जिलासमन्वयकः अशोककुमारः अवदत् यत् विश्वयुवकौशलदिवसस्य अवसर उपलक्ष्ये आयोजितः अयं रोजगारमेला युवभ्यः निजीक्षेत्रे रोजगारस्य उत्तमानवसरान् प्रदातुं महत्त्वपूर्णा पहल अस्ति। सः अवदत् यत् एकस्मिन्नेव स्थाने विंशत्यधिकानां संस्थानां उपस्थित्या युवभ्यः स्वयोग्यतानुरूपं जीविकां प्राप्तुं अवसरः भविष्यति। सः अधिकाधिकान् पात्रान् अभ्यर्थिनः समये पञ्जीकरणं कृत्वा जीविकामेलापके सहभागाय आह्वानम् अकरोत्। सः अवदत् यत् शासनस्य उद्देश्यं युवानः कौशलाधारितप्रशिक्षणेन सह रोजगारेण सम्बद्धान् कर्तुम् अस्ति येन ते आत्मनिर्भराः भवेयुः प्रदेशस्य आर्थिकविकासे च स्वीयां सहभागितां निर्वहेयुः। रोजगारमेलस्य माध्यमेन बहुसंख्यकानां युवानां निजीक्षेत्रे जीविकाप्राप्तेः अपेक्षा वर्तते।

---------------

Hindusthan Samachar / Dheeraj Maithani