अधिकाधिक-वृक्षारोपणेन हरित-समृद्ध-उत्तरप्रदेश-निर्माणे सहभागिन: भवन्तु - मन्त्री नन्दी
प्रयागराजः, १२ जुलाईमास: (हि.स.)। उत्तरप्रदेशस्य औद्योगिकविकासमन्त्री नन्दगोपालगुप्तः ''नन्दी'' रविवासरे जनान् अधिकाधिक-वृक्षारोपणं कृत्वा प्रकृति-संरक्षण-अभियाने सम्मिलितुं आह्वानम् अकरोत्। सः अवदत् यत् अग्रिम-वंशानां कृते स्वच्छस्य, हरितस्य, सम
एक पेड़ मां के नाम अभियान कार्यक्रम में जनसमूह को संबोधित करते हुए मंत्री नंदी का छाया चित्र


एक पेड़ मां के नाम कार्यक्रम का शुभारंभ करते हुए मंत्री नंदी


प्रयागराजः, १२ जुलाईमास: (हि.स.)। उत्तरप्रदेशस्य औद्योगिकविकासमन्त्री नन्दगोपालगुप्तः 'नन्दी' रविवासरे जनान् अधिकाधिक-वृक्षारोपणं कृत्वा प्रकृति-संरक्षण-अभियाने सम्मिलितुं आह्वानम् अकरोत्। सः अवदत् यत् अग्रिम-वंशानां कृते स्वच्छस्य, हरितस्य, समृद्धस्य च उत्तरप्रदेशस्य निर्माणम् अस्माकं सर्वेषां सामूहिकम् उत्तरदायित्वम् अस्ति।

'एकः वृक्षः मातुः नाम्ना' इत्यस्य अभियानस्य अन्तर्गतं प्रयागराजस्य बलिदानी-चन्द्रशेखर-आजाद-उद्याने वृक्षारोपणं कृत्वा सः पर्यावरणसंरक्षणस्य सन्देशम् अददात्। मन्त्री नन्दी अवदत् यत् प्रकृतेः प्रति स्वकीयं दायित्वं निर्वहन्तः प्रत्येकं जनः अधिकाधिकान् वृक्षान् रोपयितुं तेषां संरक्षणस्य च सङ्कल्पं कुर्यात्।

सः युवभ्यः सह सर्वेभ्यः नागरिकेभ्यः अपि अस्य जनाभियानस्य सहभागिनः भवितुम् आह्वानम् अकरोत्। तेन उक्तं यत् सामूहिक-प्रयत्नैः एव स्वच्छ-हरित-समृद्ध-प्रदेशस्य स्वप्नं साकारं भविष्यति। सः अवदत् यत् हरिशङ्करी-परम्परायां वट-अश्वत्थ-पाकड-वृक्षाणां रोपणं सहैव क्रियते। एते वृक्षाः पर्यावरण-सन्तुलनस्य संरक्षणे प्राणवायोः उपलब्धौ च महत्त्वपूर्णां भूमिकां निर्वहन्ति इति मान्यता अस्ति।

प्रधानमन्त्रिणः नरेन्द्रमोदिनः आह्वानेन प्रवर्तमाने 'एकः वृक्षः मातुः नाम्ना' अभियाने रविवासरे मुख्यमन्त्रिणः योगी-आदित्यनाथस्य नेतृत्वे प्रदेशव्यापि पञ्चत्रिंशत्-कोटि-वृक्षाणां रोपणं क्रियते। तस्यैव क्रमस्य अन्तर्गतं प्रयागराजे द्व्यशीतिलक्ष-पञ्चाशत्सहस्र-वृक्षारोपणस्य लक्ष्यम् उत्तरप्रदेश-सर्वकारस्य औद्योगिकविकासमन्त्री नन्द-गोपालगुप्तः 'नन्दी' ऐतिहासिके बलिदानी-चन्द्रशेखर-आजाद-उद्याने वृक्षारोपणेन शुभारब्धवान्।

कार्यक्रमस्य प्रारम्भे मन्त्री नन्दी अमर-बलिदानी-चन्द्रशेखर-आजादस्य प्रतिमायाः समक्षं पुष्पाञ्जलिं समर्प्य श्रद्धाञ्जलिम् अर्पितवान्। ततः परं 'वृक्षारोपण-महायज्ञः–२०२६' इत्यस्य अन्तर्गतं हरिशङ्करी-वृक्षस्य रोपणं कृत्वा पर्यावरणसंरक्षणस्य हरित-उत्तरप्रदेश-निर्माणस्य च सङ्कल्पं सुदृढीकृतवान्।

अस्मिन् अवसरे फाफामऊ-विधायकः गुरुप्रसाद-मौर्यः, जनपदाधिकारी मनीष-वर्मा, मुख्य-वनसंरक्षकः मनोज-कुमारः, प्रभागीय-वनाधिकारी अरविन्द-यादवः, एडीआईओएस नीरज-केसरी, मण्डलीय-सूचनाधिकारी इन्द्रमणि-पाण्डेयः, उद्यान-अधीक्षकः, सिविल-डिफेन्स-अधिकारी राकेश-तिवारी, समाजसेवी रविः, कार्यक्रम-सञ्चालकः डॉ.प्रभाकर-त्रिपाठी, गोरखा-राइफल्स-सैनिकाः, स्काउट-गाइड-संस्थायाः छात्राः छात्र्यश्च, अन्ये च बहवः जनाः उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan