हिन्दू आध्यात्मिक एवं सेवा मेलानां सज्जा तीव्रा, समाजस्य सांस्कृतिकानां पारिवारिकानां च मूल्यानां संवर्धने वर्तिष्यति केंद्रितम् : संजीव दीक्षितः
कानपुरम्, 12 जुलाईमासः (हि.स.)। हिन्दू आध्यात्मिकसेवामेलः केवलम् आयोजनं नास्ति अपितु समाजे पारिवारिकसांस्कृतिकमानवीयमूल्यानां सुदृढीकरणाय जनाभियानम् अस्ति। अस्य सफलाय आयोजनाय सर्वाः समितयः समन्वयेन सह सज्जीकरणकार्ये संलग्नाः भवन्तु। एतानि वचनानि रव
बैठक के दौरान लिया गया छायाचित्र


कानपुरम्, 12 जुलाईमासः (हि.स.)। हिन्दू आध्यात्मिकसेवामेलः केवलम् आयोजनं नास्ति अपितु समाजे पारिवारिकसांस्कृतिकमानवीयमूल्यानां सुदृढीकरणाय जनाभियानम् अस्ति। अस्य सफलाय आयोजनाय सर्वाः समितयः समन्वयेन सह सज्जीकरणकार्ये संलग्नाः भवन्तु। एतानि वचनानि रविवासरे हिन्दू आध्यात्मिकसेवासंस्थानस्य महानगराध्यक्षः संजीव दीक्षित द्विदिवसीयसज्जीकरणोपवेशनस्य समये उक्तवान्।

हिन्दू आध्यात्मिकसेवाफाउण्डेशनस्य तत्त्वावधाने नवम्बरमासस्य षड्विंशतितः त्रिंशत्तमदिनाङ्कपर्यन्तं प्रस्तावितस्य हिन्दू आध्यात्मिकसेवामेलस्य सफलाय आयोजनाय पण्डितदीनदयालउपाध्यायसनातनधर्मविद्यालये नवाबगञ्जे द्विदिवसीयं सज्जीकरणोपवेशनम् आयोजितम्। उपवेशने सेवाकार्यप्रदर्शनी सांस्कृतिककार्यक्रमाः मेलाप्रबन्धनम् प्रचारप्रसारः मठमन्दिरसमन्वयः पारिवारिकमानवीयमूल्यानां संवर्धनम् नारीसम्मानः शिक्षा च सम्बन्धिषु विषयेषु विस्तरेण चर्चा अभवत्।

अखिलभारतीयपदाधिकारी सोमकान्त शर्मा पत्रकारवार्तां सम्बोधयन् मेलस्य रूपरेखां उद्देश्यम् क्रियान्वयनस्य च सूचनाम् अददात्। तेन उक्तं यत् आयोजनस्य उद्देश्यः सामाजिकसांस्कृतिकपारिवारिकमूल्यानां संरक्षणम् व्यक्तित्वचरित्रनिर्माणम् पर्यावरणसंरक्षणस्य प्रति जनजागरणं च अस्ति। तेन विविधसमितीनां पदाधिकारिभ्यः आयोजनसम्बद्धाः आवश्यकाः दिशानिर्देशाः अपि प्रदत्ताः।

तेन उक्तं यत् मेलात् पूर्वं शतदिनपर्यन्तं विद्यालयेषु क्रीडा संस्कृतिः गुरुवन्दनम् प्रकृतिवन्दनम् इत्यादयः कार्यक्रमाः आयोजयिष्यन्ते। एतदतिरिक्तं एकत्रिंशत्तमदिनाङ्के अक्टोबरमासस्य एकलक्षजनानां सामूहिकवन्देमातरम् कार्यक्रमः नवरात्रिपर्वणि कन्यावन्दनम् तथा नवम्बरमासे स्वामीविवेकानन्दरथयात्रा इत्यादीनां पूर्वायोजनकार्यक्रमाणां विषये अपि चर्चा अभवत्।

उपवेशने महानगरसंयोजकः नवेन्दु शुक्ल मेला संयोजकः अरविन्द दीक्षित पूर्वीउत्तरप्रदेशसंयोजकः अमरनाथ डा शैलेन्द्र द्विवेदी डा राहुल मिश्रा पङ्कज श्रीवास्तव विपिन शुक्ल शैलजा रावत इत्यादयः बहुसंख्यकाः पदाधिकारिणः कार्यकर्तारः च उपस्थिताः आसन्।

Hindusthan Samachar / Dheeraj Maithani