धर्मेन्द्र-प्रधानः नवीन-पटनायकश्च विख्यात-पार्श्वगायिकायाः एस. जानकी इत्यस्याः निधनस्य विषये शोकं व्यक्तवन्तौ
भुवनेश्वरनगरम्, १२ जुलाईमासः (हि.स.)। केन्द्रीय-शिक्षामन्त्री धर्मेन्द्र-प्रधानः ओडिशा-विधानसभायाः प्रतिपक्षनेता नवीन-पटनायकश्च पार्श्वगायिकायाः एस.जानकी इत्यस्याः निधनस्य विषये प्रगाढं शोकं व्यक्तवन्तौ। उभाभ्यामपि भारतीय-सङ्गीत-जगति तस्याः अतुलनीय
दिग्गज गायिका एस. जानकी  फाइल फोटो


भुवनेश्वरनगरम्, १२ जुलाईमासः (हि.स.)। केन्द्रीय-शिक्षामन्त्री धर्मेन्द्र-प्रधानः ओडिशा-विधानसभायाः प्रतिपक्षनेता नवीन-पटनायकश्च पार्श्वगायिकायाः एस.जानकी इत्यस्याः निधनस्य विषये प्रगाढं शोकं व्यक्तवन्तौ। उभाभ्यामपि भारतीय-सङ्गीत-जगति तस्याः अतुलनीय-योगदानाय श्रद्धाञ्जलिः अर्पिता।

केन्द्रीयमन्त्री धर्मेन्द्र-प्रधानः सामाजिक-माध्यमे प्रकाशिते स्वसन्देशे उक्तवान् यत् भारतीय-सङ्गीत-जगतः स्वर-साधिका एस.जानकी अम्मा इत्यस्याः निधनम् अत्यन्तं दुःखदम् अस्ति। सः अवदत् यत् स्वया विलक्षणया मधुरया च वाण्या सा अनेकासां भारतीय-भाषाणां गीतानि अमराणि अकरोत्। सङ्गीत-जगति तस्याः अप्रतिमं योगदानं मधुरः स्वरश्च सदैव स्मरणीयौ भविष्यतः। सः दिवङ्गतात्मनः शान्तिं तथा शोकसन्तप्त-परिजनेभ्यः तस्याः प्रशंसकेभ्यश्च एतत् दुःखं सोढुं शक्तिं प्रदातुम् ईश्वरं प्रार्थितवान्।

प्रतिपक्षनेता नवीन-पटनायकः अपि एस.जानकी इत्यस्याः निधनस्य विषये प्रगाढं शोकं व्यक्तवान्। सः अवदत् यत् 'नेई जा रे मेघ मोते' तथा 'पादरे पाद छन्दा' इत्यादीनि बहूनि लोकप्रियाणि ओडिया-गीतानि, अन्यासां भारतीय-भाषाणां गीतानि च स्वस्वरेण गीत्वा सा सङ्गीत-जगति प्रतिविंबम् अस्थापयत्। भारतीय-सङ्गीतं प्रति तस्याः योगदानं सदैव स्मरणीयं भविष्यतीति सः उक्तवान्। दिवङ्गतात्मनः सद्गतिं कामयमानः सः शोकाकुल-परिवारं प्रति स्वगाढ-संवेदनाः अपि व्यक्तवान्।

Hindusthan Samachar / Divya Ranjan