Enter your Email Address to subscribe to our newsletters

दोहा, 12 जुलाईमासः (हि.स.)।कतरदेशस्य पूर्वशासकः फादर अमीर इति नाम्ना विख्यातः शेख हमद बिन खलीफा अल थानी चतुःसप्ततिवर्षीयायां वयसि दिवङ्गतः। कतरदेशस्य अमीरीदीवानेन रविवासरे तस्य निधनस्य सूचना प्रदत्ता।
अमीरीदीवानेन प्रकाशिते विज्ञप्तिपत्रे उक्तं यत् देशः अस्यां महत्यां क्षतौ शोकं प्रकटयति तथा च दिवङ्गतस्य शेख हमदस्य आत्मनः शान्त्यर्थम् ईश्वरं प्रति प्रार्थनां करोति।
शेख हमदः वर्षे एकोनविंशत्यधिकनवशतनवतितमे वर्षात् द्विसहस्रत्रयोदशतमवर्षपर्यन्तं कतरदेशस्य शासनम् अकरोत्। तस्य शासनकालः देशस्य तीव्रार्थिकसामाजिकविकासस्य कालरूपेण परिगण्यते। प्राकृतिकवायोः ऊर्जासंसाधनानां च समृद्धं कतरदेशं वैश्विकस्तरे प्रभावशालिदेशरूपेण प्रतिष्ठापयितुं तस्य महत्त्वपूर्णा भूमिका आसीत्।
तस्य कार्यकाले कतरदेशः आधारसंरचनानिर्माणे शिक्षायां संस्कृतिक्षेत्रे अन्ताराष्ट्रियकूटनीतौ च शीघ्रं प्रगतिम् अलभत। अद्य कतरदेशस्य प्रभावः मध्यपूर्वप्रदेशे एव न अपितु उत्तरआफ्रिकायाम् एशियायाम् अपि विस्तृतः अस्ति।
शेख हमदस्य शासनकाले वर्षे एकोनविंशत्यधिकनवशत्षट्नवतितमे अन्ताराष्ट्रियसमाचारजालस्य अल जजीरा इत्यस्य प्रारम्भः अभवत्। अपरं वर्षे द्विसहस्रचतुर्थे कतरदेशस्य प्रथमः स्थायीसंविधानः प्रवर्तितः। तस्य शासनकाले नगरपालिकानिर्वाचनानां प्रारम्भः अभवत् यस्मिन् महिलाभ्यः मतदानस्य निर्वाचने सहभागितायाश्च अधिकारः प्रदत्तः।
तस्य नेतृत्वे कतरदेशः वैश्विकमञ्चे स्वीयां विशिष्टपहचानं सुदृढां कृतवान्। वर्षे द्विसहस्रद्वाविंशतितमे कतरदेशेन फीफा पुरुषविश्वक्रीडास्पर्धायाः आयोजनं कृतम् यत् देशस्य कृते ऐतिहासिकी उपलब्धिः अभवत्। प्रतियोगिताकाले शेख हमदस्य प्रशंसकैः हार्दिकस्वागतं कृतम्।
वर्षे द्विसहस्रत्रयोदशे शेख हमदः स्वपुत्राय शेख तमीम बिन हमद अल थानी इत्यस्मै शासनभारं समर्पितवान्। तस्मिन् समये शेख तमीमस्य वयः त्रयस्त्रिंशद्वर्षाणि आसीत्। उपसागरप्रदेशे वंशपरम्परागतशासकेन स्वेच्छया सत्ताहस्तान्तरणस्य एषः दुर्लभः उदाहरणः मन्यते।
शेख हमद बिन खलीफा अल थानी कतरदेशस्य आधुनिकराष्ट्रनिर्माणस्य वैश्विकपहचानस्थापनस्य च प्रमुखेषु नेतृषु परिगण्यते।
------------------
Hindusthan Samachar / Dheeraj Maithani