Enter your Email Address to subscribe to our newsletters

बेलगावीनगरम्, १२ जुलाईमासः (हि.स.)। राष्ट्रियस्वयंसेवकसंघस्य त्रिदिवसीया वार्षिकी अखिलभारतीय-प्रान्तप्रचारक-सभा रविवासरे कर्णाटकस्य बेलगावीनगरे सम्पन्ना। अस्यां सभायां शाखाविस्तारः, शताब्दीवर्षस्य कार्यक्रमाः, जनगणना, जनसाङ्ख्यिकम्-असन्तुलनम्, नशामुक्तिः, सामाजिकजागरूकता, सङ्गठनात्मक-कार्यकलापाः इत्येतैः च सह अनेके महत्त्वपूर्णविषयाः विस्तरेण चर्चिताः।
सभायां सरसंघचालकः डॉ.मोहनभागवतः, सरकार्यवाहः दत्तात्रेयहोसबाले तथा देशस्य विभिन्नप्रान्तेभ्यः आगताः २२६ कार्यकर्तारः सहभागीभूताः। सभायाः अवधौ सङ्घस्य प्रशिक्षणकार्यक्रमाणां समीक्षा कृता, अग्रिमयोजनानां रूपरेखा अपि निर्मिता।
संघस्य अखिलभारतीयप्रचारप्रमुखः सुनील-आम्बेकरः पत्रकारविज्ञप्तिं प्रकाशितवान् यत् मार्च २०२६ तः परं देशव्यापि आयोजितानां ८३ संघशिक्षावर्गाणां तथा १२ कार्यकर्तृविकासवर्गाणां समीक्षा कृता। एतेषु प्रशिक्षणवर्गेषु १८,८४२ स्वयंसेवकाः सहभागिनः अभवन्। प्रशिक्षणकाले शाखासञ्चालनम्, सङ्घस्य कार्यपद्धतिः, ग्रामविकासः, कुटुम्बप्रबोधनम्, आपदाप्रबन्धनम् तथा पर्यावरणसंरक्षणम् इत्यादिषु विषयेषु विशेषप्रशिक्षणम् अदीयत।
तेन उक्तं यत् सेप्टेम्बर-मासे अधिकतम-शाखाविस्ताराय विशेषकार्ययोजनां निर्मातुं निर्णयः कृतः। सङ्घस्य शताब्दीवर्षस्य अन्तर्गतं अद्यावधि आयोजितकार्यक्रमाणां समीक्षा कृता तथा अवशिष्टकार्यक्रमाणां सफलाय आयोजनाय रणनीतिः अपि चर्चिता। तेन सह शताब्दीवर्षे सम्पर्के आगतान् जनान् सामाजिककार्यकलापैः तथा ‘पञ्च-परिवर्तन’-अभियानेन सक्रियतया सम्बद्धान् कर्तुं विशेषबलम् अदीयत। वर्षस्य २०२६–२७ कृते सरसंघचालकस्य प्रवासकार्यक्रमस्य रूपरेखायाः विषयेऽपि विचारविमर्शः अभवत्।
सभायां वर्तमानराष्ट्रीयपरिदृश्यस्य सन्दर्भे जनगणनायाः तथा जनसाङ्ख्यिक-असन्तुलनस्य आह्वानानां विषयेऽपि चर्चा अभवत्। देशे वर्धमानानां मादकद्रव्याणां दुष्प्रभावेषु चिन्ता व्यक्ता तथा नशामुक्तसमाजस्य निर्माणार्थं व्यापक-जनजागरणस्य सामाजिक-सह-भागितायाश्च वर्धनाय आह्वानम् अकरोत्। सन्तशिरोमणिनः रविदास-महाराजस्य ६५०-तमजन्म-जयन्तीवर्षस्य अवसरे कार्य-क्रमाणां रूपरेखायाः विषयेऽपि विचारः कृतः।
सभायाम् अयोध्यास्थिते श्रीरामजन्म-भूमिमन्दिरे दानपेटिकायाः धनराशेः गणनाकाले अभिव्यक्तायाम् अनियमित-तायाम् अपि चिन्ता प्रकटिता। पत्रकारविज्ञप्त्यानुसारं तीर्थक्षेत्रन्यासस्य अनुरोधेन गठितस्य विशेष-अन्वेषण-दलस्य तथा आरक्षक-अधिकारिणां अन्वेषणं निर्णायकचरणं प्राप्तमिति उक्तम्। अन्वेषणसमाप्तेः अनन्तरं दोषिणां विरुद्धम् उचितकार्यवाही भविष्यति तथा भविष्ये एतादृशघटनानां पुनरावृत्तिनिवारणाय न्यासेन आवश्यकपदानि ग्रहीष्यन्ते, येन रामभक्तानाम् आस्था अक्षुण्णा तिष्ठेत्।
Hindusthan Samachar / Divya Ranjan