अधुना बालानां पृष्टेषु न पतिष्यति अधिकभारः, विद्यालयीयभारस्य निर्धारिता सीमा
शिमला, 12 जुलाईमासः (हि.स.)। विद्यालयं गच्छतां छात्राणां गुरुभारयुक्तपृष्ठपुटिकां प्रति दीर्घकालात् एव अभिभावकैः विशेषज्ञैः च चिन्ता व्यक्ता भवति। अधुना तु शिक्षाविभागेन अस्मिन् विषये पदक्षेपः कृतः अस्ति तथा च विद्यालयपृष्ठपुटिकायाः भारविषये स्प
स्कूल बैग अधिसूचना


शिमला, 12 जुलाईमासः (हि.स.)।

विद्यालयं गच्छतां छात्राणां गुरुभारयुक्तपृष्ठपुटिकां प्रति दीर्घकालात् एव अभिभावकैः विशेषज्ञैः च चिन्ता व्यक्ता भवति। अधुना तु शिक्षाविभागेन अस्मिन् विषये पदक्षेपः कृतः अस्ति तथा च विद्यालयपृष्ठपुटिकायाः भारविषये स्पष्टनिर्देशाः निर्गताः सन्ति। शिमलामण्डलस्य विद्यालयशिक्षायाः (माध्यमिकेन) उपनिदेशकेन मण्डलस्य सर्वेषां राजकीयनिजीविद्यालयानां प्रधानाचार्येभ्यः मुख्याध्यापकेभ्यः च आदेशाः प्रदत्ताः यत् कस्यापि छात्रस्य विद्यालयपृष्ठपुटिकायाः भारः तस्य शारीरिकभारस्य दशप्रतिशताधिकः न भवेत्। शिक्षाविभागेन एते निर्देशाः प्राप्तशिकायतानाम् उच्चस्तरीयादेशानां च अनन्तरं प्रसारिताः।

विभागस्य कथनम् अस्ति यत् विद्यालयैः एषा व्यवस्था गम्भीरतया कार्यान्वेया, येन छात्राणां उपरि अनावश्यकभारः न भवेत् तथा च तेषां शारीरिकस्वास्थ्ये प्रतिकूलप्रभावः अपि न जायेत।

समयसारिण्यां भविष्यति परिवर्तनम्, केवलम् आवश्यकग्रन्थाः एव आनेतव्याः

निर्गतादेशेषु विद्यालयेभ्यः उक्तम् अस्ति यत् ते स्वां समयसारिणीं एवं प्रकारेण निर्मेयुः, येन छात्रैः प्रतिदिनं तस्मिन् दिने अध्ययनाय आवश्यकाः ग्रन्थाः अभ्यासपुस्तिकाः च एव विद्यालयम् आनेतव्याः। विद्यालयेभ्यः एतदपि सुनिश्चितं कर्तुं निर्देशाः प्रदत्ताः यत् छात्राः अतिरिक्तग्रन्थान् अभ्यासपुस्तिकाः अन्याम् अनावश्यकसामग्रीं च स्वपृष्ठपुटिकायां न आनयेयुः।

विभागस्य मतम् अस्ति यत् यदि प्रतिदिनस्य अध्ययनानुसारं ग्रन्थानां उपयोगः भविष्यति तर्हि विद्यालयपृष्ठपुटिकायाः भारः स्वयमेव न्यूनी भविष्यति। आदेशेषु राष्ट्रियमानवाधिकारआयोगेन विद्यालयपृष्ठपुटिकाविषये निर्गतानां दिङ्निर्देशानां पूर्णतया पालनम् अपि कर्तव्यमिति निर्दिष्टम् अस्ति। विभागेन सर्वेभ्यः विद्यालयेभ्यः एतान् निर्देशान् नियमितव्यवस्थायाः अविभाज्यमङ्गत्वेन स्वीकर्तुं विशेषतः बलं दत्तम्।

सर्वेभ्यः विद्यालयेभ्यः कार्यानुष्ठानप्रतिवेदनम् अपेक्षितम्

विद्यालयशिक्षायाः (माध्यमिक) उपनिदेशकेन शिमलामण्डलस्य सर्वेभ्यः राजकीयनिजीविद्यालयेभ्यः एतेषां निर्देशानां त्वरितपालनं सुनिश्चितं कर्तुं निर्देशाः प्रदत्ताः। सहैव एतेषाम् आदेशानाम् अनुपालने कृते कार्यस्य कार्यानुष्ठानप्रतिवेदनम् निर्धारितप्रारूपेण निर्धारितसमयसीमायाः अन्तः विभागाय प्रेषणीयम् इति अपि निर्देशितम्।

---------------

Hindusthan Samachar / Dheeraj Maithani