Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १२ जुलाईमासः (हि.स.)। केन्द्रीयसर्वकारः १० तः १९ सेप्टेम्बरमासस्य पर्यन्तं देशव्यापी तटीयस्वच्छताभियानम् ‘स्वच्छसागरः सुरक्षितसागरः’ सञ्चालयिष्यति। अस्य अभियानस्य सिद्धतायाः समीक्षां कुर्वन् केन्द्रीयविज्ञान-प्रौद्योगिकी-राज्यमन्त्री (स्वतन्त्रप्रभारः) डॉ. जितेन्द्रसिंहः वैज्ञानिकसंस्थानानां मध्ये उत्तमसमन्वयस्य आवश्यकताम् अवदत्। तेन उक्तं यत् प्रौद्योगिकीनवाचारः, जनसहभागिता तथा विभागीयसहयोगः समन्वयेन संयोज्य अस्य अभियानस्य जनान्दोलनरूपेण विकासः करणीयः।
केन्द्रीयविज्ञान-प्रौद्योगिकीमन्त्रालयस्य अनुसारं डॉ. जितेन्द्रसिंहः रविवासरे विज्ञानमन्त्रालयानां विभागानां च सचिवैः वरिष्ठाधिकारिभिश्च सह उच्चस्तरीयां सभाम् अकरोत्। अस्मिन् सम्मेलने सर्वकारस्य प्रधानवैज्ञानिकपरामर्शदाता प्रो. अजयकुमारसूदः, विज्ञान-प्रौद्योगिकी-विभागस्य सचिवः प्रो. उमेशवी-वाघमारे, जैवप्रौद्योगिकीविभागस्य सचिवः डॉ. राजेश-एस.-गोखले, वैज्ञानिक-औद्योगिक-अनुसन्धानविभागस्य तथा पृथ्वीविज्ञानमन्त्रालयस्य सचिवा डॉ.एन.कलैसेल्वी इत्यादयः वरिष्ठ-अधिकारिणः उपस्थिताः आसन्।
सभायां ‘स्वच्छसागरः सुरक्षितसागरः’ अभियानस्य रणनीतेः तथा सिद्धतायाः समीक्षा कृता। एतत् अभियानं देशस्य समुद्रतटेषु स्वच्छतायाः, पर्यावरण-संरक्षणस्य तथा जन-जागरूकतायाः संवर्धनार्थम् आयोज्यते। अस्मिन् वैज्ञानिकसंस्थानानां, सर्वकारीय-संस्थानानां, स्वयंसेवकानां, शैक्षणिक-संस्थानानां तथा स्थानीयसमुदायानां सहभागिता सुनिश्चितीक्रियते।
डॉ. जितेन्द्रसिंहः अवदत् यत् वैज्ञानिक-विभागाः पृथक्-पृथक् संस्थारूपेण न कार्यं कुर्युः, अपितु एकीकृततन्त्ररूपेण कार्यं कुर्युः। नियमितसंवादेन, ज्ञानसहभागेन तथा संयुक्तप्रयत्नैः वैज्ञानिकोपलब्धीनां लाभः प्रत्यक्षरूपेण नागरिकेभ्यः प्रदातुं शक्यते।सभायां विज्ञानमन्त्रालयानां सञ्चार-रणनीतेः अपि समीक्षा कृता। मन्त्रालयैः गतद्वादशवर्षेषु, विशेषतः वर्तमान-सर्वकारस्य गतद्विवर्षेषु प्राप्तानां वैज्ञानिकोपलब्धीनां व्यापकप्रचारार्थं चलचित्रैः, वृत्तचित्रैः, डिजिटल-अभियानैः, सूचनाचित्रैः तथा सफलताकथाभिः जनसम्पर्कवर्धनस्य योजनाः प्रस्तुताः।
विज्ञान-प्रौद्योगिकीविभागेन अनुसन्धान-राष्ट्रीय-अनुसन्धान-फाउण्डेशन, राष्ट्रीय-क्वाण्टम-अभियानम्, राष्ट्रीय-अन्तःविषय-साइबर-भौतिक-तन्त्र-अभियानम् तथा अन्येषां प्रमुख-कार्यक्रमाणां जनजागरूकता-रणनीतिः प्रस्तुता। सी.एस.आइ.आर. इत्यनया संस्थया सूचितं यत् सा गतद्वादशवर्षाणां प्रमुखवैज्ञानिक-उपलब्धीनां व्यापक-प्रकाशनं सज्जी-कुर्वती अस्ति, यत् अस्मिन् वर्षे सी.एस.आइ.आर.-स्थापनादिवसे प्रकाशितं भविष्यति।
जैवप्रौद्योगिकीविभागेन सार्वजनिक-स्वास्थ्ये, जैव-अर्थव्यवस्थायाम्, जीनोमिक्स-विज्ञाने, कृषिजैवप्रौद्योगिक्यां तथा स्टार्टअप-क्षेत्रे स्वस्य योगदानं प्रकाशयन्ती प्रकाशनशृङ्खला तथा ‘डी.बी.टी.-क्वेस्ट’ जनसहभागिता-अभियानस्य विवरणं प्रस्तुतम्।
सभायां सी.एस.आइ.आर., इसरो, डी.एस.टी., डी.बी.टी., बार्क तथा अन्येषां संस्थानानां मध्ये प्रचलितानां संयुक्त-अनुसन्धान-कार्यक्रमाणां, नवाचार-मञ्चानां तथा पूर्वोत्तरक्षेत्र-सम्बद्धानां सहयोगकार्य-क्रमाणां समीक्षा कृता। सहैव अनुसन्धान-राष्ट्रीय-अनुसन्धान-फाउण्डेशन इत्यन्तर्गतानां विविध-परियोजनानां तथा डिजिटल-मञ्चानां उपयोगवर्धनविषयेऽपि विचार-विमर्शः अभवत्।
डॉ. जितेन्द्रसिंहः अवदत् यत् भारतस्य वैज्ञानिकपारिस्थितिकतन्त्रं नूतनचरणे प्रविष्टम् अस्ति, यत्र अनुसन्धानोत्कृष्टता, प्रौद्योगिकीनवाचारः, संस्थागतसमन्वयः तथा जनसहभागिता—एतेषां समन्वयम् अनिवार्यम् अस्ति। विज्ञानं अधिकं सुलभं प्रभावकरं विकासोन्मुखं च कर्तुं सर्वकारः दृढसंकल्पितः अस्ति।
Hindusthan Samachar / Divya Ranjan