Enter your Email Address to subscribe to our newsletters

पूर्णिया, 12 जुलाईमासः(हि.स.)।
लोकसभायां स्वस्य द्विवर्षीयकार्यकालस्य समापनावसरे रविवासरे शान्तिभवने आयोजिते कार्यक्रमे सांसदः राजेशरञ्जनः अपरनाम पप्पूयादवः प्रतियोगीपरीक्षाणां सिद्धतां कुर्वद्भ्यः छात्रछात्राभ्यः अध्ययनसामग्रीम् तथा क्रीडकाभ्यः क्रिकेट फुटबॉल हाईजम्प लॉङ्जम्प क्रीडासामग्रीं वितरितवान्। कार्यक्रमे भोजपुरीचलच्चित्राभिनेत्री अपर्णामल्लिका सह बहुसंख्यकाः जनप्रतिनिधयः सामाजिककार्यकर्तारः क्रीडकाः विद्यार्थिनः च उपस्थिताः आसन्।
सांसदेन उक्तं यत् पूर्णियाजनपदस्य जनतया जातिधर्मयोः उपरि उत्थाय विकासराजनीतिः स्वीकृता अस्ति। तस्य सङ्कल्पः आगामिषु त्रिषु वर्षेषु पूर्णियां देशस्य अग्रणीषु नगरेषु समावेशयितुम् अस्ति। तेन उक्तं यत् सीमाञ्चलकोसीप्रदेशयोः मार्ग रेलमार्ग रेलउपसेतवः राष्ट्रियराजमार्गाः अन्याश्च आधारभूतपरियोजनाः अग्रे नीयन्ते। कुरसेलाबिहारीगञ्जमार्गस्य निविदाप्रक्रिया सम्पूर्णा जाता अस्ति तथा अन्यासाम् अपि महत्त्वपूर्णमार्गपरियोजनानां कार्यम् आरभ्यते।
युवभ्यः सांसदेन संसदः सत्रस्य अनन्तरं पूर्णियायां वृहद् रोजगारमेलस्य आयोजनस्य घोषणा कृता येन दशसहस्राधिकेभ्यः युवभ्यः रोजगारप्राप्तेः लक्ष्यं निर्धारितम्। तेन उक्तं यत् परीक्षां दातुं बहिर्गच्छद्भ्यः पूर्णियायाः अभ्यर्थिभ्यः आवागमनस्य तथा परीक्षां दातुं पूर्णियां आगच्छद्भ्यः विद्यार्थिभ्यः भोजनस्य निःशुल्कव्यवस्था क्रियते। सेनायाः अग्निवीरपदस्य पुलिसभर्तेः च सिद्धतां कुर्वद्भ्यः ग्रामीणयुवभ्यः पञ्चायतस्तरे क्रीडासामग्री प्रशिक्षणसामग्री च उपलब्धा क्रियते।
सांसदेन पादचारिपथेषु चतुष्पथेषु च लघुव्यवसायं कुर्वद्भ्यः आवश्यकतासम्पन्नपरिवारेभ्यः विंशतिसहस्ररूप्यकाणां वित्तसहायतायाः घोषणा कृता। तेन शासकीयकार्यालयेषु मध्यस्थानाम् अवैधधनसङ्ग्रहस्य च निरोधनस्य तथा विद्युत्सम्बद्धकार्येषु उपभोक्तृभ्यः धनग्रहणं न कर्तव्यमिति निर्देशः दत्तः। नीत्यायोगस्य आकाङ्क्षीजिलाश्रेणीक्रमे पूर्णियायाः प्रथमस्थानप्राप्त्याः निमित्तं तेन जिलाधिकारिणं प्रशासनिकाधिकारिणः कर्मचारिणः व्यवसायिनः सामान्यजनान् च अभिनन्द्य उक्तं यत् शिक्षया रोजगारेण क्रीडया जनसेवया च पूर्णिया विकासस्य राष्ट्रियप्रतिमानरूपेण निर्मास्यते।
---------------
Hindusthan Samachar / Dheeraj Maithani