श्री जगन्नाथ रथ यात्रा महोत्सवस्य सज्जामाधृत्य इस्कॉन प्रबंधकारिण्याःउपवेशनम्
बक्सरः 2 जुलाईमासः (हि.स.)। आगामि श्रीजगन्नाथरथयात्रामहोत्सवस्य आयोजनसम्बन्धेन पड़रीस्थे इस्कॉनमन्दिरप्रबन्धकारिणीसमित्याः उपवेशनं गोयलधर्मशालायाम् आयोजितम्। उपवेशनस्य अध्यक्षतां पड़रीस्थस्य इस्कॉनमन्दिरस्य प्रबन्धकः राजा गोविन्ददासः अकरोत्। सञ्चा
श्री जगन्नाथ रथ यात्रा को लेकर बैठक करते लोग


बक्सरः 2 जुलाईमासः (हि.स.)। आगामि श्रीजगन्नाथरथयात्रामहोत्सवस्य आयोजनसम्बन्धेन पड़रीस्थे इस्कॉनमन्दिरप्रबन्धकारिणीसमित्याः उपवेशनं गोयलधर्मशालायाम् आयोजितम्।

उपवेशनस्य अध्यक्षतां पड़रीस्थस्य इस्कॉनमन्दिरस्य प्रबन्धकः राजा गोविन्ददासः अकरोत्। सञ्चालनं तु शिक्षाविद् समाजसेवी च इस्कॉनमन्दिरप्रबन्धकारिणीसमित्याः सदस्यः डॉ. रमेश कुमारः अकरोत्।

उपवेशने निर्णयः कृतः यत् आगामिनि १७ जुलै, शुक्रवासरे भगवान् श्रीजगन्नाथः, भगवान् बलभद्रः तथा देवी सुभद्रा इत्येषां पावना रथयात्रा श्रद्धया भक्त्या उत्साहेन च आयोजिता भविष्यति।

रथयात्रायाः शुभारम्भः बक्सरनगरस्य गोलम्बरस्थात् हनुमन्मन्दिरात् भविष्यति तथा विविधमार्गैः गच्छन्ती सा गोयलधर्मशालायां समाप्स्यते। एषा रथयात्रा गतवर्षस्य अपेक्षया अधिका भव्यता सम्पन्ना भविष्यति।

उपवेशनकाले रथयात्रायाः मार्गः, श्रद्धालूनां सुविधाः, सुरक्षाव्यवस्था, स्वच्छता, पेयजलव्यवस्था, चिकित्सासहायता तथा यातायातप्रबन्धनम् इत्यादिविषयेषु विस्तृता चर्चा अभवत्।

आयोजनसमित्या नगरवासिनः अस्मिन् धार्मिकसांस्कृतिकमहोत्सवे उत्साहेन सहभागित्वं कर्तुं सहयोगं च प्रदातुम् आहूताः।

रथयात्रामहोत्सवस्य संरक्षकौ रोहतास गोयलः तथा बबन सिंहः उक्तवन्तौ यत् अयं महोत्सवः धार्मिकश्रद्धायाः सामाजिकसमरसतायाः सांस्कृतिकैकतायाश्च प्रतीकः अस्ति। ताभ्यां सर्वे श्रद्धालवः नगरवासिनश्च महोत्सवस्य सफलसम्पादनाय सक्रियसहभागित्वं कर्तुम् आग्रहः कृतः।

ज्ञापितं यत् महोत्सवे बक्सरस्य विभिन्नमठमन्दिराणां महन्तः पूजारिणश्च, राजनेतारः, पुलिसप्रशासनयोः अधिकारिणः, समाजसेविनः, शिक्षाविदः तथा विविधक्षेत्रेषु गणमान्यानागरिकाश्च आमन्त्रिताः भविष्यन्ति।

उपवेशने प्रमुखरूपेण ओंकार दासः, शैलेन्द्र सिंहः, विकास यादवः, रञ्जीत कुमारः, आकाश कुमारः, सन्तोष कुमारः, प्रेमप्रकाश ओझा, जितेन्द्र मिश्रः तथा राहुल कुमारः उपस्थिताः आसन्।

Hindusthan Samachar / Dheeraj Maithani