Enter your Email Address to subscribe to our newsletters


-मुख्येन न्यायाधीशेन कृतं मुख्यमंत्रिणा सह गुरुग्रामे कृतं टॉवर ऑफ जस्टिसस्य लोकार्पणम्
गुरुग्रामः, 12 जुलाईमासः (हि.स.)।
देशस्य मुख्यन्यायाधीशः न्यायमूर्तिः सूर्यकान्तः उक्तवान् यत् न्यायालयानां वास्तविकं महत्त्वं तेषां भव्यतायां नास्ति, अपितु ते नागरिकस्य न्यायस्य च मध्ये विद्यमानां दूरीं कियत् न्यूनां कुर्वन्ति इत्यस्मिन् निहितम् अस्ति। तेन उक्तं यत् गुरुग्रामनगरस्य टावर आफ जस्टिस इति न्यायप्रासादः एतस्यैव चिन्तनस्य प्रतीकः अस्ति तथा अनेन न्यायिकसामर्थ्यस्य वृद्ध्या सह लम्बितप्रकरणानां निस्तारणे अपि शीघ्रता भविष्यति।
रविवासरे न्यायमूर्तिः सूर्यकान्तः गुरुग्रामे टावर आफ जस्टिस इति न्यायप्रासादस्य उद्घाटनम् अकरोत् तथा आभासीयमाध्यमेन नूंहजनपदस्य तावडू पुन्हाना च नवयोः न्यायिकपरिसरयोः शिलान्यासम् अकरोत्। अस्मिन् अवसरे मुख्यमन्त्री नायबसिंहसैनी केन्द्रीयनगरावासनिर्माणमन्त्री मनोहरलालः केन्द्रीयविधिन्यायराज्यमन्त्री अर्जुनराममेघवालः केन्द्रीयराज्यमन्त्री रावइन्द्रजीतसिंहः न्यायमूर्तिः विक्रमनाथः पञ्जाबहरियाणाउच्चन्यायालयस्य कार्यवाहकमुख्यन्यायाधीशः न्यायमूर्तिः अश्वनीकुमारमिश्रः अन्ये च न्यायाधीशाः गणमान्यजनाश्च उपस्थिताः आसन्।
मुख्यन्यायाधीशेन उक्तं यत् अत्याधुनिकसुविधाभिः युक्तानां न्यायिकपरिसराणां निर्माणं हरियाणाशासनस्य संवेदनशीलतायाः न्यायिकाधारसंरचनां सुदृढीकर्तुं दृढप्रतिबद्धतायाश्च प्रमाणम् अस्ति। तेन उक्तं यत् अतिरिक्तन्यायालयनिर्माणेन अधिकप्रकरणानां श्रवणं सम्भविष्यति तथा विशेषतः वाणिज्यविवादानां परक्राम्यलेख्याधिनियमसम्बद्धप्रकरणानां च निस्तारणे शीघ्रता भविष्यति।
तेन उक्तं यत् अस्माकं प्राथमिकता सदा तादृश्याः न्यायव्यवस्थायाः निर्माणं भवेत् या दक्षा अपि स्यात् निष्पक्षा अपि स्यात्। न्याये शीघ्रता आवश्यकी अस्ति किन्तु सा कदापि संविधानस्य मूल्यानां मूल्येन प्राप्तुं न शक्यते। अस्मिन् परिसरे आधुनिकावश्यकतानां दृष्ट्या वीडियो कान्फ्रेन्सिंग व्यवस्था सुव्यवस्थितं न्यायिकमालखानं च विकसितम् अस्ति। अस्याः परियोजनायाः अन्या महत्त्वपूर्णा विशेषता प्रस्तावितम् इन्टरनेशनल आर्बिट्रेशन सेन्टर अस्ति यत् उच्चन्यायालयस्य संरक्षणे सञ्चालितं भविष्यति।
तेन उक्तं यत् अस्माकं लक्ष्यं तादृश्यायाः न्यायपालिकायाः निर्माणम् अस्ति या आधुनिकापि भवेत् मानवीया अपि भवेत् तन्त्रज्ञानदृष्ट्या उन्नता अपि भवेत् संविधानस्य मूल्यानि दृढतया आश्रिता अपि भवेत् प्रत्येकवादस्य पृष्ठे निहितं मानवीयं जीवनं ज्ञातुं समर्था संवेदनशीला संस्था अपि भवेत्। तेन उक्तं यत् अस्माकम् उद्देश्यं प्रकरणानां शीघ्रनिस्तारणं तु अस्त्येव किन्तु तेन सह अस्माभिः एतदपि प्रयत्ननीयम् यत् कश्चिदपि नागरिकः आर्थिकसामाजिकप्रक्रियागतकठिनताभिः न्यायात् वञ्चितः इति न मन्येत। तेन उक्तं यत् टावर आफ जस्टिस केवलं भव्यनिर्माणं न भवेत् अपितु प्रत्येकनागरिकस्य कृते निष्पक्षप्रभाविसंवेदनशीलन्यायस्य प्रतीकं भवेत्। न्यायमूर्तिः सूर्यकान्तः मुख्यमन्त्री नायबसिंहसैनी अन्ये च गणमान्याः टावर आफ जस्टिस निर्माणे योगदानं दत्तवन्तः श्रमिकान् स्मृतिचिह्नानि प्रदाय सम्मानितवन्तः।
न्यायमूर्तिः सूर्यकान्तः उक्तवान् यत् अद्यतनः अवसरः मम कृते विशेषः अस्ति। जनवरीमासे वर्षे २०१७ पञ्जाबहरियाणाउच्चन्यायालये न्यायाधीशत्वेन कार्यं कुर्वन् अस्य न्यायिकपरिसरस्य भूमिपूजनं कर्तुं मह्यं अवसरः प्राप्तः आसीत्। तेन उक्तं यत् गुरुग्रामः पूर्वं मुख्यतया कृषेः कृते प्रसिद्धः आसीत् किन्तु अद्य उद्योगस्य नवोन्मेषस्य निवेशस्य च प्रमुखकेन्द्रं जातम् अस्ति। अद्य गुरुग्रामस्य न्यायालयेषु चतुर्विंशतिसहस्राधिकानि दिवानीविवादप्रकरणानि प्रायः एकसहस्रं वाणिज्यविवादप्रकरणानिहो परक्राम्यलेख्याधिनियमसम्बद्धानि लक्षाधिकान प्राप्तियां च लम्बितानि सन्ति। एते आकडाः न्यायव्यवस्थायाः वर्धमानदायित्वस्य सूचकाः सन्ति। तादृशे समये अयं टावर आफ जस्टिस केवलम् आधुनिकभवनं नास्ति अपितु न्यायप्राप्तिम् अधिकप्रभाविनीं कर्तुं महत्त्वपूर्णं माध्यमम् अस्ति।
--------------
Hindusthan Samachar / Dheeraj Maithani