Enter your Email Address to subscribe to our newsletters



लखनऊ, 12 जुलाईमासः (हि.स.)।
उत्तरप्रदेशविधानसभायाः अध्यक्षः सतीशमहानः रविवासरे बिहारस्य गयानगरे स्थिते बिपार्ड बिहारलोकप्रशासनग्रामीणविकाससंस्थाने आयोजिते बिहारविधानसभासदस्यानाम् अभिमुखीकरणप्रशिक्षणकार्यक्रमे बिहारविधानसभायाः अध्यक्षेन डाक्टर प्रेमकुमारेण सह एक पेड़ माँ के नाम अभियानस्य अन्तर्गतं वृक्षारोपणम् अकरोत्।
अस्मात् कार्यक्रमात् अतिरिक्तं बिहारलोकप्रशासनग्रामीणविकाससंस्थाने आयोजिते बिहारविधानसभासदस्यानाम् अभिमुखीकरणप्रशिक्षणकार्यक्रमे सहभागितार्थम् आगते विधानसभाध्यक्षे सतीशमहाने बिहारशासनस्य मन्त्रिमण्डलमन्त्रिणा विजयकुमारसिन्हेन आत्मीयस्वागतं कृतम्।
---------------
Hindusthan Samachar / Dheeraj Maithani