Enter your Email Address to subscribe to our newsletters

उरई, 12 जुलाईमासः (हि.स.)।
उत्तरप्रदेशस्य जालौनजनपदे वृक्षारोपणमहायज्ञ २०२६ तथा एकः वृक्षः मातुः नाम्ना अभियानस्य अन्तर्गतं रविवासरे जालौनन्यायालयपरिसरे वृहद्वृक्षारोपणकार्यक्रमस्य आयोजनम् अभवत्। अस्मिन् कार्यक्रमे जनपदन्यायाधीशः बृजेन्द्रसिंहः वृक्षारोपणं कृत्वा अभियानस्य शुभारम्भम् अकरोत् तथा च उपस्थितजनान् पर्यावरणसंरक्षणस्य सन्देशम् अदात्।
जनपदन्यायाधीशः बृजेन्द्रसिंहः अवदत् यत् वृक्षाः मानवजीवनस्य आधाराः सन्ति। प्रत्येकेन जनने स्वमातुः सम्मानार्थम् अवश्यं न्यूनातिन्यूनम् एकः पादपः रोपणीयः तस्य नियमितपालनपोषणं च करणीयम्। तेन उक्तं यत् वर्धमानात् पर्यावरणसंकटात् रक्षणार्थम् अधिकाधिकवृक्षारोपणं कालस्य परमावश्यकता अस्ति।
अस्मिन् अवसरे प्रथमजनपदन्यायाधीशः सतीशदुबेदी अपरजनपदन्यायाधीशः सुरेशकुमारगुप्तः मुख्यन्यायिकदण्डाधिकारी अभिषेकखरे न्यायिकदण्डाधिकारिणी निकितासिंह पेशकारः मुन्नाराजा नाजिरः बृजेन्द्रः राजीववर्मा ठाकुरदासराठौरः प्रमोदकुमारः रामऔतारः न्यायालयस्य अन्ये लिपिकाः वनक्षेत्राधिकारी कोमलसिंहः उपवनक्षेत्राधिकारी मुबारिकअली वनदारोगा संजीवकुमारः वनविभागस्य अन्ये अधिकारिणः कर्मचारीणश्च उपस्थिताः आसन्।
कार्यक्रमस्य अन्ते सर्वे उपस्थिताः अधिकारिणः कर्मचारीणश्च पर्यावरणसंरक्षणस्य संकल्पं स्वीकृत्य अधिकाधिकवृक्षारोपणस्य तेषां संरक्षणस्य च सन्देशम् अददुः।
---------------
Hindusthan Samachar / Dheeraj Maithani