उच्च शिक्षा मंत्री निर्माण कार्याणां मासिक समीक्षायाः दत्तो निर्देशः, प्रथमसितंबरतश्शुभारप्स्यते नूतनश्छात्रावासः
देहरादूनम्, 12 जुलाईमासः (हि.स.)। उच्चशिक्षाविभागस्य अधीनस्थेषु राजकीयमहाविद्यालयेषु प्रवर्तमानानां विविधनिर्माणकार्याणां प्रतिमासं प्रगतिसमीक्षा करिष्यते। निर्धारितसमये कार्याणि सम्पन्नानि न कुर्वन्तीषु कार्यदायिसंस्थासु विरुद्धं कार्यवाही सुनिश
उच्च शिक्षा मंत्री डाॅ. धन सिंह रावत


देहरादूनम्, 12 जुलाईमासः (हि.स.)।

उच्चशिक्षाविभागस्य अधीनस्थेषु राजकीयमहाविद्यालयेषु प्रवर्तमानानां विविधनिर्माणकार्याणां प्रतिमासं प्रगतिसमीक्षा करिष्यते। निर्धारितसमये कार्याणि सम्पन्नानि न कुर्वन्तीषु कार्यदायिसंस्थासु विरुद्धं कार्यवाही सुनिश्चिता भविष्यति। तथा च राजकीयमहाविद्यालयेषु सञ्चालितानां नवनिर्मितानां छात्रावासानां सञ्चालनम् आगामि एकसितम्बरदिनाङ्कात् प्रारभ्यताम्।

उच्चशिक्षामन्त्री डाक्टर धनसिंहरावतः अद्य स्वकीयशासकीयनिवासे उच्चशिक्षाविभागस्य समीक्षोपवेशनम् अकरोत्। अस्मिन् उपवेशने विभागस्य उच्चाधिकारीणः कार्यदायिसंस्थानां प्रतिनिधयश्च सहभागी अभवन्। उपवेशने डाक्टर रावतः राज्यस्य राजकीयमहाविद्यालयेषु निर्माणाधीनानां भवनानां कक्षाणां छात्रावासानां पुस्तकालयानां प्रयोगशालानां सामुदायिककेन्द्रस्य च निर्माणप्रगतेः समीक्षा अकरोत्। तत्र तेन विभागीयाधिकारीभ्यः कार्यदायिसंस्थानामधिकारीभ्यश्च निर्धारितसमये निर्माणकार्यसमापनस्य निर्देशाः दत्ताः। सः अपि अवदत् यत् निर्माणकार्येषु विलम्बः गुणवत्तायां च काचिदपि उपेक्षा न सहिष्यते।

सः अवदत् यत् विभागीयसचिवः निर्माणकार्याणां प्रतिमासं समीक्षा करिष्यति। तेन राज्ये एनईपी २०२० इत्यस्य अन्तर्गतं प्रस्तावितानां द्वादशाधिकविंशतिमहाविद्यालयानां स्वायत्तताप्रस्तावानां सर्वाः औपचारिकताः शीघ्रं सम्पन्नाः कृत्वा यूजीसी संस्थां प्रति प्रेषयितुं निर्देशाः दत्ताः। सः अवदत् यत् स्वायत्ततासम्बद्धविषयाणां निरीक्षणं निदेशकः स्वयं करिष्यति। विभिन्नजनपदेषु राजकीयमहाविद्यालयेषु निर्माणाधीनानां छात्रछात्रीछात्रावासानां निर्माणे शीघ्रतां कर्तुं निर्देशान् दत्त्वा डाक्टर रावतः अवदत् यत् आगामि एकसितम्बरदिनाङ्कात् सर्वेषां नवनिर्मितछात्रावासानां सञ्चालनं प्रारभ्यताम्। छात्रावासप्रबन्धनाय भोजनालयसञ्चालनादिकार्यार्थं च एकः मानककार्यप्रक्रियापत्रः अपि निर्मीयताम्।

एतदतिरिक्तं पूर्वं स्वीकृतानां येषां महाविद्यालयानां कृते भूमिः अद्यापि उपलब्धा न अभवत् तेषां कृते भूमेः उपलब्धता सुनिश्चितकर्तुं विभागीयाधिकारिभ्यः निर्देशाः दत्ताः। डाक्टर रावतः छात्रसङ्घनिर्वाचनानि निर्धारितसमये सम्पादयितुं छात्रीणां कृते छात्रसङ्घेषु पञ्चाशत्प्रतिशतभागीदारीं सुनिश्चितकर्तुं च अधिकारिभ्यः निर्देशान् दत्तवान्। एतदतिरिक्तं प्रत्येकमहाविद्यालयस्य प्राचार्येभ्यः योगप्रशिक्षकाणां कार्यविषये अभिप्रायं ग्रहीतुं विभागीयाधिकारिभ्यः अपि निर्देशाः दत्ताः।

उपवेशने उच्चशिक्षासचिवः बीवीआरसी पुरुषोत्तमः संयुक्तसचिवः प्रदीपमोहननौटियालः उच्चशिक्षानिदेशकः वीएन खली संयुक्तनिदेशिका सङ्गीतागुप्ता तथा ब्रिडकुल पेयजलनिर्माणनिगमः मण्डीपरिषद् सिञ्चनविभागः अन्यकार्यदायिसंस्थानां प्रतिनिधयश्च उपस्थिताः आसन्।

---

Hindusthan Samachar / Dheeraj Maithani