उपराष्ट्रपतिना नवदिल्लीनगरे मन्नं-स्मृतिमण्डपस्य उद्घाटनम्
नवदिल्ली, १२ जुलाईमासः (हि.स.)। उपराष्ट्रपतिः सी.पी.राधाकृष्णनः रविवासरे नवदिल्लीनगरे मन्नं-स्मृतिमण्डपस्य उद्घाटनम् अकरोत्। एतत् मण्डपं मन्नम-इण्टरनेशनल-सेण्टर इत्यस्य अन्तर्गतं स्मृतिकक्षम् अस्ति। अस्य कार्यक्रमस्य आयोजनं नायर-सर्विस-सोसायटी-इत्य
मन्नथु पद्मनाभन  प्रतिमा का अनावरण करते उपराष्ट्रपति


नवदिल्ली, १२ जुलाईमासः (हि.स.)। उपराष्ट्रपतिः सी.पी.राधाकृष्णनः रविवासरे नवदिल्लीनगरे मन्नं-स्मृतिमण्डपस्य उद्घाटनम् अकरोत्। एतत् मण्डपं मन्नम-इण्टरनेशनल-सेण्टर इत्यस्य अन्तर्गतं स्मृतिकक्षम् अस्ति। अस्य कार्यक्रमस्य आयोजनं नायर-सर्विस-सोसायटी-इत्यस्य दिल्लीशाखया कृतम्। तेन समाजसुधारकस्य स्वतन्त्रतासेनानिनः मन्नथु-पद्मनाभनस्य प्रतिमायाः अपि अनावरणं कृतम्।

कार्यक्रमे मन्नथु-पद्मनाभनाय श्रद्धाञ्जलिः अर्पिता। तेन १९१४ तमे वर्षे नायर-सर्विस-सोसायटी इति संस्थायाः स्थापना कृता आसीत्। केरलराज्ये नायर-समुदायस्य उत्थानार्थं सामाजिकन्यायस्य, शिक्षायाः, समानतायाः तथा सामुदायिक-सेवायाः क्षेत्रेषु तेन महत्त्वपूर्णं योगदानं प्रदत्तम्। अस्मिन् अवसरे केन्द्रीयमन्त्री सुरेशगोपी तथा एन.एस.एस.-दिल्ली-इत्यस्य अधिकारिणः अपि उपस्थिताः आसन्।

कार्यक्रमम् सम्बोधयन् उपराष्ट्रपतिः मन्नथु-पद्मनाभनस्य सामाजिकन्यायाय, समानतायै, शिक्षायै तथा सामुदायिक-सेवायै आजीवनसमर्पणम् अधोरेखितवान्। सः उक्तवान् यत् तस्य आदर्शाः समावेशिनः सामञ्जस्यपूर्णस्य च समाजस्य निर्माणाय राष्ट्रस्य यात्रां निरन्तरं प्रेरयन्ति। मन्नं-स्मृतिमण्डपस्य स्थापनया तस्य परम्परायाः संरक्षणे संवर्धने च दिल्लीस्थ-नायर-सर्विस-सोसायटी इत्यस्य प्रयत्नान् सः प्रशशंस।

अस्मिन् अवसरे उपराष्ट्रपतिः मन्नम्-इण्टरनेशनल-सेण्टर-परिसरे समाज-सुधारकस्य मन्नथु-पद्मनाभनस्य प्रतिमायाः अनावरणस्य तथा मन्नं-स्मृतिमण्डपस्य उद्घाटनस्य निमित्तम् ‘एकं वृक्षं मातुः नाम्ना’ अभियाने अन्तर्गतं एकं पादपम् अपि आरोपितवान्।

---------------

Hindusthan Samachar / Divya Ranjan