Enter your Email Address to subscribe to our newsletters

नालंदा, बिहारशरीफम् 12 जुलाई (हि.स.)।
नालन्दाजनपदस्य जिलाधिकारिणी उदितासिंहः रविवासरे बिहारशरीफस्थिते बसवनबिगहाग्रामे आयोजितस्य बावनबूटीकार्यक्रमस्य शुभारम्भम् अकरोत्। कार्यक्रमे वायकाराः शिल्पकाराः नाबार्ड संस्थायाः अधिकारिणः तथा विभिन्नविभागानां अधिकारिणः सहभागिनः अभवन्। आगतानाम् अतिथीनां हरितपादपैः अङ्गवस्त्रैश्च स्वागतं कृतम्।
स्वीयसम्बोधने जिलाधिकारिणी अवदत् यत् नालन्दायाः प्रसिद्धा बावनबूटीहस्तशिल्पकला राष्ट्रियान्ताराष्ट्रियविपणिभिः सह संयोजनीया इति अद्यतनकाले महती आवश्यकता वर्तते। एतदर्थं प्रशासनं पर्यटनस्थलेषु विक्रयस्य प्रदर्शनस्य च स्थायिव्यवस्थां विकसितुं प्रयत्नं करिष्यति।
सा अवदत् यत् प्रत्येकेन उत्पादेन सह तस्य निर्माणप्रक्रिया शिल्पिनः परिचयः प्रयुक्तसामग्री सांस्कृतिकपृष्ठभूमिश्च अपि प्रदर्शनीया यतः क्रेतारः तेन सह भावनात्मकसम्बन्धं स्थापयितुं शक्नुयुः।
जिलाधिकारिणी प्रत्येकस्मिन् उत्पादे क्यूआरकोड संस्थापनस्य परामर्शं दत्त्वा अवदत् यत् अनेन क्रेतारः उत्पादसम्बद्धाः सर्वाः सूचनाः सुलभतया प्राप्तुं शक्नुवन्ति। तया सामाजिकमाध्यमानां डिजिटलमञ्चानां च माध्यमेन व्यापकप्रचारप्रसारस्य आवश्यकतायामपि बलं दत्तम्। आवश्यकता उत्पन्ना चेत् प्रशासनिकवित्तीयसहयोगस्य आश्वासनम् अपि दत्तम्।
नाबार्ड संस्थायाः जिलाविकासप्रबन्धकः अवदत् यत् जीआई चिह्नस्य प्राप्तेः अनन्तरं सर्वे वायकाराः तेन सह सम्बद्धाः भविष्यन्ति। सहैव अन्तर्जालविक्रयस्य क्षेत्रे सूत्रोत्पादनैककस्य स्थापनस्य सम्भावनासु अपि कार्यं क्रियमाणम् अस्ति।
कार्यक्रमे वायकाराः विपणनस्य स्थायिविपण्याः प्रशिक्षणस्य तथा शासकीयसंस्थासु पर्यटनस्थलेषु च बावनबूटी-उत्पादानां उपयोगवृद्धेः मागधम् अकुर्वन्। जिलाधिकारिणी सर्वेषु व्यवहारिकसुझावेषु सकारात्मककार्यवाह्याः आश्वासनं दत्तवती।
---------------
Hindusthan Samachar / Dheeraj Maithani