Enter your Email Address to subscribe to our newsletters

लखनऊ, 13 जुलाईमासः (हि.स.)।
अखिलभारतीयविद्यार्थिपरिषदः प्रतिनिधिमण्डलेन सोमवासरे अध्यापकाः सम्मानिताः। प्रतिनिधिमण्डलेन लखनऊविश्वविद्यालयस्य हिन्दी आधुनिकभारतीयभाषाविभागस्य डा राहुलपाण्डेयस्य प्राध्यापकपदे पदोन्नतेः तथा हबीबुल्लाछात्रावासस्य अभिरक्षकपदे नियुक्तेः अवसरः अभिनन्दितः। तथा राजनीतिशास्त्रविभागस्य डा जितेन्द्रकुमाराय आचार्यनरेन्द्रदेवछात्रावासस्य सहायकाभिरक्षकपदस्य अतिरिक्तदायित्वप्राप्तेः निमित्तम् अखिलभारतीयविद्यार्थिपरिषदा तयोः स्वागतं कृत्वा पुस्तकं समर्प्य मालया च सम्मानः कृतः।
अभाविप छात्रशक्ति पत्रिकायाः पूर्वोत्तरप्रदेशसंयोजकः विकासतिवारी अवदत् यत् अखिलभारतीयविद्यार्थिपरिषदः प्रमुखशिल्पकारः प्रोफेसर यशवन्तरावकेलकरः मन्यते स्म यत् शिक्षकाः केवलं ज्ञानप्रदानस्य माध्यमानि न सन्ति, अपितु ते समाजनिर्माणे राष्ट्रपुनर्निर्माणे च अग्रणीमार्गदर्शकाः सन्ति।
विद्यार्थिपरिषदः प्रत्येकः छात्रः कठिनसमये शिक्षकेभ्यः मार्गदर्शनं प्राप्य स्वस्य अग्रिममार्गं प्रशस्तं करोति। अस्माकं दायित्वम् अस्ति यत् वयं शिक्षकेषु स्वज्ञानस्य सञ्चितनिधिरूपेण भावं कृत्वा तेषां सम्यक् सम्मानं कुर्याम।
अभाविप लखनऊउत्तरजिल्लासंयोजकः अभिषेकसिंहः अवदत् यत् परिषद् स्वस्थापनकालादारभ्य प्रतिवर्षं शिक्षकदिवसस्य अवसरः शिक्षकेभ्यः सम्मानं करोति। तथा च तेषां विचारेभ्यः प्रेरणाम् अपि गृह्णाति। अस्मिन्नवसरे अभाविपकार्यकर्तारः उदितसिंहः, शिवांशुयादवः, आकाशअग्निहोत्री तथा अन्ये अपि उपस्थिताः आसन्।
---------------
Hindusthan Samachar / Dheeraj Maithani