Enter your Email Address to subscribe to our newsletters

सिडनी (ऑस्ट्रेलिया), 13 जुलाईमासः (हि.स.)।
जुरासिक पार्क तथा पीकी ब्लाइण्डर्स इत्यादिषु प्रसिद्धेषु चलच्चित्रेषु स्वपात्राभिनयेन विख्यातः अभिनेता सैम नील सोमवासरे दिवङ्गतः। सः अष्टसप्ततिवर्षीयवयसि सेन्ट विंसेन्ट प्राइवेट हॉस्पिटल नाम्नि चिकित्सालये अन्तिमश्वासम् अत्यमुञ्चत्। अस्मिन् अवसरे तस्य परिवारस्य सदस्याः उपस्थिताः आसन्।
चतुर्दशसितम्बर १९४७ तमे वर्षे उत्तर आयरलैण्डस्य काउण्टी टायरोन प्रदेशस्य ओमाग नगरे जातस्य सैम नीलस्य पूर्णनाम नाइजेल जॉन डर्मोट नील आसीत्। उच्चशिक्षायाः समये तस्मिन् अभिनयस्य प्रति विशेषा रुचिः अभवत्।
अमेरिकीय एबीसी न्यूज माध्यमस्य प्रतिवेदनानुसारं सोमवासरस्य प्रातःकाले प्रकाशितेन विज्ञप्तिपत्रेण सैम नीलस्य निधनस्य पुष्टि कृता। नीलस्य मातापितरौ सेनायां सेवां कुर्वन्तौ आस्ताम् तथा च तस्य परिवारस्य द्राक्षाक्षेत्रम् आसीत्। यदा नील सप्तवर्षीयः आसीत् तदा तस्य परिवारः न्यूजीलैण्डदेशं गतवान्। वर्षे १९८१ तमे सः प्रथमवारम् ओमेन थ्री द फाइनल कॉन्फ्लिक्ट इति चलच्चित्रे अभिनयम् अकरोत्।
तस्मै वर्षे १९९३ तमे प्रदर्शितेन जुरासिक पार्क इति चलच्चित्रेण विशेषा ख्यातिः प्राप्ता। तेन अभिनीतं डॉ एलन ग्रान्ट इति पात्रं सर्वाधिकं प्रशंसितम् अभवत्।
स्टीवन स्पीलबर्गेन निर्देशितम् एतत् विज्ञानकल्पनाप्रधानम् आक्षनचलच्चित्रं माइकल क्रिचटनस्य वर्षे १९९० तमे प्रकाशितस्य समनामकस्य उपन्यासस्य आधारेण निर्मितम् आसीत्।
चलच्चित्रस्य कथा आनुवंशिकविज्ञानविशेषज्ञानां दलस्य विषये आसीत् ये विलुप्तानां डायनोसौराणां वन्यजीवोद्यानम् असृजन्। नीलस्य पात्रं प्रख्यातस्य जीवाश्मवैज्ञानिकस्य जैक हॉर्नरस्य प्रेरणया निर्मितम् आसीत्। नीलः जुरासिक पार्क थ्री तथा जुरासिक वर्ल्ड डोमिनियन इति चलच्चित्रयोः अपि स्वपात्रम् पुनः अभिनीतवान्।
----------
Hindusthan Samachar / Dheeraj Maithani