Enter your Email Address to subscribe to our newsletters

जम्मूः, 13 जुलाईमासः (हि.स.)।
कठोरसुरक्षाव्यवस्थायाः मध्ये सोमवासरे ७,७०० अधिकाः श्रद्धालवः कश्मीरघाट्यां प्रचलमानायाः वार्षिकायाः अमरनाथयात्रायाः द्वाभ्यां आधारशिविराभ्यां प्रति जम्मूनगरात् प्रस्थितवन्तः। अद्यावधि २,५२,००० अधिकाः तीर्थयात्रिणः ३,८८० मीटरोन्नते गुहामन्दिरे हिममयस्य शिवलिङ्गस्य दर्शनं कृतवन्तः।
अधिकारिणः अवदन् यत् समग्रतया ७,७५४ तीर्थयात्रिणः ३०३ यानेषु प्रस्थितवन्तः। तेषु ५,३८३ पुरुषाः, २,०७१ महिलाः, २२२ साधवः, ५८ साध्व्यः, १६ बालकाः, ४ तृतीयलिङ्गिनश्च आसन्। यात्रिणां काफिलः द्वयोः पृथग् समूहयोः विभक्तः आसीत्। प्रातः ३:३० वादने प्रस्थिते बालटालमार्गस्य काफिले १३३ यानानि २,८९६ तीर्थयात्रिणश्च आसन्। पहलगाममार्गस्य काफिले १७० यानेषु ४,८५८ तीर्थयात्रिणः आसन्, यः प्रातः ४:०५ वादने प्रस्थितः।
शुक्रवासरे प्रस्थितान् जनान् समावेश्य २ जुलैदिनाङ्के आरब्धायाः यात्रायाः आरम्भात् अद्यावधि जम्मूस्थितात् आधारशिविरात् कश्मीरप्रदेशं प्रति समग्रतया ८७,७०१ तीर्थयात्रिणः प्रस्थितवन्तः।
यदा श्रद्धालवः स्वतीर्थयात्राम् आरब्धवन्तः तदा भगवतीनगरस्थितम् आधारशिविरं “बम् बम् भोले, हर हर महादेव, जय बर्फानी बाबा” इति घोषैः प्रतिध्वनितम् अभवत्।
अनेकैः तीर्थयात्रिभिः यात्रायाः सुचारुसञ्चालनार्थं कृताभिः व्यवस्थाभिः सन्तोषः व्यक्तीकृतः।
पवित्रगुहामन्दिरस्य सप्तपञ्चाशद्दिवसीया वार्षिकी तीर्थयात्रा २८ अगस्तदिनाङ्के सम्पन्ना भविष्यति।
---------------
Hindusthan Samachar / Dheeraj Maithani