जगदलपुरम् : रियासत कालीन बस्तर गोंचा पर्वणि नेत्रोत्सव पूजा विधानं 15 जुलाई दिनांके
जगदलपुरम्, 13 जुलाईमासः (हि.स.)। छत्तीसगढस्य बस्तरप्रदेशे गोंचा-महापर्व २०२६ अन्तर्गतं २९ जूनदिनाङ्के देवस्नानपूर्णिमायाः (चन्दनयात्रायाः) अवसरेण पर्वणः शुभारम्भः जातः। १४ जुलैदिनाङ्कपर्यन्तं श्रीजगन्नाथस्वामिनः अनसरकाले दर्शनं वर्जितम् अस्ति। ने
रियासत कालीन बस्तर गोंचा महापर्व में नेत्रोत्सव पूजा विधान 15 जुलाई को फाईल फाेटाे


जगदलपुरम्, 13 जुलाईमासः (हि.स.)।

छत्तीसगढस्य बस्तरप्रदेशे गोंचा-महापर्व २०२६ अन्तर्गतं २९ जूनदिनाङ्के देवस्नानपूर्णिमायाः (चन्दनयात्रायाः) अवसरेण पर्वणः शुभारम्भः जातः। १४ जुलैदिनाङ्कपर्यन्तं श्रीजगन्नाथस्वामिनः अनसरकाले दर्शनं वर्जितम् अस्ति। नेत्रोत्सवपूजाविधानं १५ जुलैदिनाङ्के सम्पन्नं कारयिष्यते।

३६० गृहाणाम् आरण्यकब्राह्मणसमाजस्य अध्यक्षः वेदप्रकाशपाण्डेयः अवदत् यत् २९ जूनदिनाङ्के सम्पन्नस्य देवस्नानस्य (चन्दनयात्रायाः) पूजाविधानस्य अनन्तरं श्रीजगन्नाथस्वामिनः अस्वस्थताकालावधौ अर्थात् अनसरकाले भगवतः श्रीजगन्नाथस्य दर्शनवर्जितावधौ श्रीजगन्नाथमन्दिरे स्थिते मुक्तिमण्डपे प्रतिष्ठितानां भगवान् श्रीजगन्नाथः, सुभद्रा, बलभद्रस्वामी च एतेषां विग्रहाणां श्रीमन्दिरस्य गर्भगृहस्य पुरतः भक्तानां दर्शनार्थं प्रतिष्ठापनानन्तरं नेत्रोत्सवपूजाविधानं १५ जुलैदिनाङ्के सम्पन्नं भविष्यति।

सः अवदत् यत् बस्तरस्य गोंचापर्वणः सः पावनः क्षणः, यदा भगवान् श्रीजगन्नाथस्य नेत्रोत्सवपूजाविधानं भविष्यति, तदा श्रीमन्दिरस्य बहिः भक्तश्रद्धालूनां कृते भगवान् श्रीजगन्नाथः विराजमानः भविष्यति। ज्येष्ठपूर्णिमायां सम्पन्नस्य देवस्नानस्य चन्दनयात्रापूजाविधानस्य अनन्तरं १४ जुलैदिनाङ्कपर्यन्तं भगवतः श्रीजगन्नाथस्वामिनः अनसरकालावधौ भगवतः भक्ताः श्रद्धालवश्च पञ्चदशदिनपर्यन्तं भगवतः श्रीजगन्नाथस्य दर्शनात् वञ्चिताः भविष्यन्ति।

भगवान् श्रीजगन्नाथः जगतः पालकः इत्यपि कथ्यते। अर्थात् भगवान् सर्वव्यापी अस्ति, यस्य दृष्टेः भक्ताः श्रद्धालवश्च कदापि वञ्चिताः न भवन्ति। किन्तु भगवतः लीलया भक्तानां कृते अस्वस्थः जातः भगवान् श्रीजगन्नाथः अनसरकालस्य अवधौ पञ्चदशदिनपर्यन्तं दर्शनात् वर्जितः भवति। एतावत्कालं भगवद्दर्शनाभावजनितां भक्तानां श्रद्धालूनां च व्याकुलतां, या भगवतः श्रीजगन्नाथस्य सुदर्शनचक्रस्य रक्षासूत्रात् विलगभाववत् अनुभूयते, दूरीकर्तुं भगवान् श्रीजगन्नाथः श्रीमन्दिरस्य बहिः भक्तश्रद्धालूनां नयनाभिरामदर्शनार्थं स्वयम् आगच्छति। भगवतः भक्तैः श्रद्धालुभिः सह एषः आध्यात्मिकः मिलनसमयः एव नेत्रोत्सवः इति कथ्यते।

अन्यथा अपि वक्तुं शक्यते यत् श्रीमन्दिरस्य बहिः भगवान् श्रीजगन्नाथस्य भक्तश्रद्धालुभ्यः दर्शनार्थम् उपलब्धता, भगवता सह भक्तानां मिलनस्य एषः पावनः अवसरः, निकटदर्शनस्य पुण्यलाभश्च एव नेत्रोत्सवः इति प्रसिद्धः।

---------------

Hindusthan Samachar / Dheeraj Maithani