हैदराबाद: बोनालू उत्सवस्य 2026 शुभारंभः 16 जुलाई तमे दिनांके गोलकोंडा मंदिरतः भविष्यति
हैदराबादम्, 13 जुलाईमासः (हि.स.)। तेलङ्गानराज्यस्य समृद्धायाः आध्यात्मिकसांस्कृतिकपरम्परायाः प्रतीकभूतस्य आषाढमास बोनालू जात्रा इत्यस्य शुभारम्भः जुलैमासस्य १६ दिनाङ्के गोलकोंडास्थितात् श्रीजगदम्बा महाकालीमन्दिरात् भविष्यति। प्रायः एकमासपर्यन्तं प्
बोनालू उत्सव में भाग लेती के. कविता की फाइल फोटो


बोनालू उत्सव का फाइल फोटो


हैदराबादम्, 13 जुलाईमासः (हि.स.)। तेलङ्गानराज्यस्य समृद्धायाः आध्यात्मिकसांस्कृतिकपरम्परायाः प्रतीकभूतस्य आषाढमास बोनालू जात्रा इत्यस्य शुभारम्भः जुलैमासस्य १६ दिनाङ्के गोलकोंडास्थितात् श्रीजगदम्बा महाकालीमन्दिरात् भविष्यति। प्रायः एकमासपर्यन्तं प्रवर्तमानः अयं पारम्परिकः लोकमहोत्सवः आगस्तमासस्य १३ दिनाङ्कपर्यन्तं ग्रेटर हैदराबाद क्षेत्रस्य ३४२७ मन्दिरेषु आचरिष्यते। राज्यसर्वकारेण आयोजनार्थं १५.०५ कोटिरूप्यकाणां धनराशिः अनुमोदिता अस्ति।महोत्सवस्य सज्जतासमीक्षार्थं सोमवासरे हैदराबादनगरस्य प्रभारीमन्त्री पोन्नम प्रभाकरस्य अध्यक्षतायाम् उच्चस्तरीयोपवेशनम् अभवत्। तेन विविधविभागानाम् अधिकारिणः निर्देशिताः यत् सर्वाः व्यवस्थाः समये सम्पन्नाः भवेयुः तथा श्रद्धालूनां कृते कापि असुविधा न भवेत्। तेन उक्तं यत् विविधविभागानां मध्ये उत्तमसमन्वयेन आयोजनं सफलं क्रियताम्।

मन्त्रिणा सूचितं यत् राज्यसर्वकारस्य पक्षतः विविधेषु प्रमुखमन्दिरेषु परम्परानुसारं रेशमीवस्त्राणि समर्पयिष्यन्ते। गोलकोंडा, सिकन्दराबादस्थितं श्रीउज्जैनी महाकालीमन्दिरम्, चिलकलगुडा, हरिबोली, कारवां, लालदरवाजा, चारमीनार, मीरआलममण्डी इत्यादीनि सहितं नगरस्य प्रायः त्रिंशत् प्रमुखमन्दिरेषु मन्त्रिणः वरिष्ठाधिकारिणश्च सर्वकारस्य प्रतिनिधित्वं करिष्यन्ति। महोत्सवस्य समापनं पारम्परिकफलाहारम बण्डला इति प्रसादरथयात्रया भविष्यति।

समीक्षोपवेशने अधिकारिणः श्रद्धालूनां कृते पङ्क्तिव्यवस्था, पेयजलव्यवस्था, स्वच्छता, निर्बाधविद्युत्पूर्तिः, मार्गाणां मरम्मतकार्याणि, यातायातनियन्त्रणम्, चिकित्सासुविधाः, सुरक्षाव्यवस्था, अलङ्कारदीपव्यवस्था, पुष्पालङ्कारश्च सहिताः सर्वाः सज्जताः समये सम्पन्नाः भवेयुरिति निर्देशिताः।

बोनालू महोत्सवस्य प्रमुखकार्यक्रमाः१६ जुलै – गोलकोंडास्थिते श्रीजगदम्बा महाकालीमन्दिरे बोनालूमहोत्सवस्य शुभारम्भः।२० तः २२ जुलै – बालकाम्पेट येलम्मा कल्याणमहोत्सवः।२० जुलै – एदुरकोलू महोत्सवः।

२१ जुलै – अम्मानवारी कल्याणमहोत्सवः।

२२ जुलै – रथोत्सवः।

२ आगस्त – सिकन्दराबादस्थिते श्रीउज्जैनी महाकालीमन्दिरे बोनालूमहोत्सवः।

३ आगस्त – रङ्गम् कार्यक्रमः।९ आगस्त – लालदरवाजा सिंहवाहिनी अम्मावारी बोनालूमहोत्सवः तथा नगरस्य अन्येषु प्रमुखमन्दिरेषु विशेषकार्यक्रमाः।

उल्लेखनीयं यत् बोनालूमहोत्सवः तेलङ्गानराज्यस्य प्रमुखः लोकधार्मिकपर्व अस्ति। पूर्वमुख्यमन्त्रिणः के चन्द्रशेखर रावस्य कार्यकाले अस्मै राजकीयपर्वस्य मान्यता प्रदत्ता आसीत्। आषाढमासस्य प्रत्येके रविवासरे देवीमहाकाल्याः तथा देवीदुर्गायाः विविधेषु मन्दिरेषु श्रद्धालवः पारम्परिकवेशभूषां धारयित्वा शिरसि सुशोभितान् कलशान् वहन्तः मातरं समर्पयन्ति।

विशेषतया सिकन्दराबादस्थितस्य श्रीउज्जैनी महाकालीमन्दिरस्य बोनालूमहोत्सवः समग्रे तेलङ्गानराज्ये अत्यन्तं प्रसिद्धः मन्यते। अस्मिन् अवसरे राज्यस्य मुख्यमन्त्री, अनेके जनप्रतिनिधयः, सामाजिकसङ्घटनानि, सहस्रशः श्रद्धालवश्च परम्परानुसारं पूजार्चनायां भागं गृह्णन्ति। बोनालूमहोत्सवः तेलङ्गानराज्यस्य सांस्कृतिकपरिचयस्य लोकश्रद्धायाश्च महत्त्वपूर्णः प्रतीकः मन्यते।--------------

Hindusthan Samachar / Dheeraj Maithani