Enter your Email Address to subscribe to our newsletters

पटनानगरम्, १३ जुलाईमासः (हि.स.)। बिहारप्रदेशे पर्यटनस्य नूतनगत्यर्थं राज्यसर्वकारेण सोमवासरे ‘मुख्यमन्त्री-बिहार-हेली-पर्यटन-वायु-पर्यटन-सेवा-योजना–२०२६’ प्रारब्धा। अस्याः योजनायाः आरम्भानन्तरम् अधुना सामान्यजनाः अपि हेलिकॉप्टर-माध्यमेन राज्यस्य प्रमुख-धार्मिक-ऐतिहासिक-पर्यटन-स्थलानां भ्रमणं कर्तुं शक्नुवन्ति।
मुख्यमन्त्री सम्राट-चौधरी योजनायाः शुभारम्भं कुर्वन् अवदत् यत् अस्य प्रयत्नस्य माध्यमेन पर्यटनस्य संवर्धनं भविष्यति तथा राज्यस्य अर्थव्यवस्थायाः अपि नूतना दृढता भविष्यति। तेन उक्तं यत् बिहारस्य परिचयः केवलं तस्य गौरवशालिना अतीतेन न, अपितु द्रुतगत्या परिवर्तमानया विकासयात्रयापि भवति।
मुख्यमन्त्री जनान् सम्बोध्य अवदत् यत् प्रत्येकं बिहारी स्वराज्यस्य ब्राण्ड-अम्बेसडरः भवेत्, येन बिहारस्य सकारात्मक-प्रतिमा देशे विदेशे च प्रसरेत्। सः अवदत् यत् राज्यात् बहिः आगच्छन्तः जनाः अधुना बिहारे जातानि परिवर्तनानि दृष्ट्वा विस्मयं प्रकटयन्ति। पूर्वं पटनां समागताः पर्यटकाः सीमितेषु स्थानेष्वेव तिष्ठन्ति स्म, किन्त्वधुना अत्र ताज-होटल-इत्यस्य सञ्चालनम् आरब्धम् अस्ति तथा अन्ये द्वौ प्रमुखौ होटल-समूहौ अपि निवेशाय सज्जौ स्तः। एतेन पर्यटनक्षेत्रे निजी-निवेशस्य सम्भावनाः निरन्तरं वर्धन्ते।
मुख्यमन्त्री अवदत् यत् बाँकीपुरे विकसितया होटल-परियोजनया राज्यसर्वकाराय प्रतिवर्षं प्रायः १७ कोटि-रूप्यकाणां रॉयल्टी प्राप्ता भविष्यति, तथा अशोक-होटल-इत्यस्मात् प्रतिवर्षं प्रायः ८.५ कोटि-रूप्यकाणाम् आयः भविष्यति। तेनोक्तं यत् पर्यटनं सांस्कृतिक-विरासतस्य संरक्षणेन सह राजस्व-सृजनस्य महत्त्वपूर्णं साधनमपि भवितुम् अर्हति।
सम्राट-चौधरी अधिकारिभ्यः निर्देशान् दत्त्वा अवदत् यत् पर्यटन-विभागः भविष्ये आत्मनिर्भरः भवेत् इति दिशि कार्यं क्रियताम्। सः अवदत् यत् अधुना पटना-स्काइलाइन-जॉय-राइड् इत्यस्य कृते यात्रिकण: प्रति-यात्रिणं २१०० रूप्यकाणि शुल्कं ददति, किन्तु सर्वकारं प्रति-प्रवेशपत्रं प्रायः १५ सहस्र-रूप्यकाणां अनुदानं ददाति। भविष्ये एतादृशी व्यवस्था विकसनीया, येन पर्यटन-विभागः स्वयं राज्यसर्वकारस्य महत्त्वपूर्णम् आयस्रोतः भवेत्।
मुख्यमन्त्री हेलिकॉप्टर-सेवायाः विस्तारमपि आवश्यकम् इत्युक्तवान्। तेनोक्तं यत् एषा सेवा सप्ताहे केवलं द्विदिनपर्यन्तं न सीम्येत, अपितु प्रतिदिनं सञ्चाल्येत। आवश्यकता सति एकस्य स्थाने पञ्च हेलिकॉप्टराणि अपि सञ्चालयेयुः तथा निजी-निर्माणीनां सहभागितापि सुनिश्चितीक्रियताम्।
मुख्यमन्त्री अवदत् यत् राज्यसर्वकारः अस्याः योजनायाः अन्तर्गतं प्रति-प्रवेशपत्रं अधिकतमं १५,४२२ रूप्यकाणि यावत् अनुदानं प्रददाति, येन अधिकाधिकाः जनाः अस्याः सुविधायाः लाभं प्राप्नुयुः।
पर्यटन-सचिवः लोकेश-कुमार-सिंहः अवदत् यत् नूतनया हेली-पर्यटन-सेवया पर्यटकाः अल्पसमये बिहारस्य प्रमुख-धार्मिक-ऐतिहासिक-प्राकृतिक-पर्यटन-स्थलानि प्राप्स्यन्ति। एतेन देशीय-विदेशीय-पर्यटकानां सङ्ख्या वर्धिष्यते तथा स्थानीयार्थव्यवस्थायाः अपि संवर्धनं भविष्यति। तेनोक्तं यत् योजनायाः अन्तर्गतं पटना-नगरस्य उपरि प्रायः दश-मिनिटात्मकस्य हेलिकॉप्टर-जॉय-राइड् इत्यस्य कृते प्रति-यात्रिणं २१०० रूप्यकाणि शुल्कं निर्धारितम् अस्ति। एतदतिरिक्तं हेलिकॉप्टर-सेवया विविधेषु प्रमुख-पर्यटन-स्थलेषु गमनमपि शक्यं भविष्यति।
कार्यक्रमे मुख्यमन्त्रिणा १६५.४४ कोटि-रूप्यकाणां व्ययेन बोधगयायां निर्मीयमाणस्य विश्वस्तरीय-ध्यान-अनुभव-केन्द्रस्य शिलान्यासः कृतः। तदतिरिक्तं २८.५० कोटि-रूप्यकाणां व्ययेन विविध-पर्यटन-विकास-सौन्दर्यीकरण-परियोजनानां उद्घाटनं शिलान्यासश्च कृतः। पर्यटन-नीतेः अन्तर्गतं मुजफ्फरपुर-एम्यूजमेण्ट्-उद्यान-परियोजनायाः तथा मुख्यमन्त्री-होम-स्टे-नीतेः लाभार्थिभ्यः प्रमाणपत्राण्यपि वितरितानि।
पटनातः हेली-सेवायाः निर्धारितं यात्राशुल्कम्—
राजगृहम् (नालन्दा) — प्रति-यात्रिण: ४००० रूप्यकाणि
वाल्मीकिनगरम् (पश्चिम-चम्पारणः) — प्रति-यात्रिण: ५००० रूप्यकाणि
माता-मुण्डेश्वरी-धाम (कैमूरः) — प्रति-यात्रिण: ६००० रूप्यकाणि
Hindusthan Samachar / Divya Ranjan