हैदराबादे ब्रिक्स रोजगार कार्य समूहस्य उपवेशनं शुभारब्धं, श्रमापणे कौशल विकासे च मंथनम्
हैदराबादम्, 13 जुलाईमासः (हि.स.)। भारतस्य अध्यक्षतायां तेलङ्गानराजधानी हैदराबादनगरे तृतीया ब्रिक्स रोजगारकार्यसमूहस्य द्विदिवसीया उपवेशनमाला सोमवासरात् प्रारब्धा। उपवेशने सामाजिकसुरक्षा, श्रमविपण्याः औपचारिकीकरणम्, कार्यबले महिलानां सहभागिता, जीविक
ब्रिक्स समिट का पोस्टर


केंद्रीय श्रम सचिव वंदना गुरनानी का संबोधन


हैदराबादम्, 13 जुलाईमासः (हि.स.)। भारतस्य अध्यक्षतायां तेलङ्गानराजधानी हैदराबादनगरे तृतीया ब्रिक्स रोजगारकार्यसमूहस्य द्विदिवसीया उपवेशनमाला सोमवासरात् प्रारब्धा। उपवेशने सामाजिकसुरक्षा, श्रमविपण्याः औपचारिकीकरणम्, कार्यबले महिलानां सहभागिता, जीविकायोग्यता, कौशलविकासः तथा भविष्याय सज्जानां श्रमविपणीनां कृते डिजिटलनवोन्मेषः इत्यादिषु प्रमुखविषयेषु विचारविमर्शः प्रचलति।

उपवेशनस्य औपचारिकोद्घाटनं श्रमरोजगारमन्त्रालयस्य सचिवा वन्दनागुरनानी आभासीयमाध्यमेन अकरोत्। उद्घाटनसत्रे ब्रिक्स सदस्यदेशानां प्रतिनिधिभिः सह अन्तरराष्ट्रीयश्रमसङ्घस्य, अन्तरराष्ट्रीयसामाजिकसुरक्षासङ्घस्य तथा संयुक्तराष्ट्रनिवासिसमन्वयककार्यालयस्य प्रतिनिधयः अपि सहभागिताम् अकुर्वन्।

स्वसम्बोधने वन्दनागुरनानी ब्रिक्स कनेक्ट इति क्षमता निर्माण, जीविकायोग्यता, नवीनकौशलप्रौद्योगिकीसहयोगजालपहलविषये जाता सामूहिकसहमतिम् उल्लिखितवती। तया उक्तं यत् एतत् मञ्चं ब्रिक्सदेशानां मध्ये ज्ञानविनिमयस्य, क्षमता निर्माणस्य तथा नवीनप्रौद्योगिकीभ्यः अनुरूपं कार्यबलस्य सिद्धतायाः दृष्ट्या महत्त्वपूर्णां भूमिकां निर्वहिष्यति।

उपवेशनकाले सज्जीक्रियमाणे अन्तिमे ईडब्ल्यूजी घोषणापत्रे चतुर्षु प्रमुखक्षेत्रेषु विशेषः बलः दीयते। तेषु श्रमविपण्याः औपचारिकीकरणम्, डिजिटलनवोन्मेषस्य प्रोत्साहनम्, कार्यबले महिलानां सहभागितायाः वर्धनम् तथा भविष्यस्य आवश्यकतानुरूपः कौशलविकासः समाविष्टाः सन्ति।

अयं कार्यसमूहः आगामिन्याः द्वादश्याः ब्रिक्स श्रमरोजगारमन्त्रिणाम् उपवेशनस्य कृते नीतिरूपरेखायाः कार्यसूच्याः च अन्तिमरूपनिर्धारणकार्यं अपि करोति। मन्त्रिस्तरीयोपवेशनं जुलैमासस्य पञ्चदशे षोडशे च दिने हैदराबादनगरे भविष्यति, यस्मिन् सदस्यदेशानां श्रमरोजगारमन्त्रिणः सहभागितां करिष्यन्ति।

**सर्वकारीयोपवेशनानां समानान्तरं हैदराबादनगरं जुलैमासस्य चतुर्दशदिनात् प्रारभ्यमाणस्य ब्रिक्स श्रमिकसङ्घमञ्चस्य शिखरसम्मेलनस्य अपि आतिथ्यं करिष्यति। अस्मिन् सम्मेलने श्रमिकाणाम् अधिकाराः, सामाजिकसुरक्षा, श्रमसम्बद्धाः आधारभूतविषयाः च चर्चायाः विषयाः भविष्यन्ति, येन एते सुझावाः व्यापकब्रिक्स श्रमकार्यसूच्यां मन्त्रिस्तरीयविचारविमर्शे च समावेशयितुं शक्येरन्।---------------

Hindusthan Samachar / Dheeraj Maithani