Enter your Email Address to subscribe to our newsletters

– काङ्ग्रेसदलम् श्वः सर्वकारस्य विरुद्धम् अविश्वासप्रस्तावम् आनयिष्यति
रायपुरम्, १३ जुलाईमासः (हि.स.)। छत्तीसगढ़विधानसभायाः वर्षाकालीनम् अधिवेशनम् अद्य सोमवासरे प्रारभ्यते। पञ्चदिनपर्यन्तं प्रवर्तमाने अस्मिन् अधिवेशने सत्तापक्षस्य विपक्षस्य च मध्ये तीव्रः राजनैतिकः संघर्षः भविष्यति इति सम्भाव्यते। काङ्ग्रेसदलम् श्वः (१४ जुलाईमासे) सर्वकारस्य विरुद्धम् अविश्वासप्रस्तावम् आनयिष्यति।
रविवासरे सम्पन्नायां काङ्ग्रेसविधायक-दलस्य सभायाम् अस्मिन् विषये सम्मतिः अभवत्। प्रतिपक्षनेतुः चरणदासमहन्तस्य सर्वकारीनिवासे काङ्ग्रेसविधायकदलस्य सभा प्रायः द्विहोरापर्यन्तम् अभवत्। सभायाः अनन्तरं प्रतिपक्षनेता डॉ. चरणदासमहन्तः अवदत्— “सर्वकारस्य प्रतिज्ञाः मिथ्या सिद्धाः। भ्रष्टाचारः वर्धितः अस्ति तथा च विविधेषु विषयेषु जनाः पीडिताः सन्ति। अतः काङ्ग्रेसदलम् अविश्वासप्रस्तावम् आनयिष्यति।”
प्रतिपक्षनेता अपि उक्तवान् यत् वर्षाकालीनाधिवेशने काङ्ग्रेसदलम् विद्युत्सङ्कटम्, महार्घता, कृषकाणां समस्याः, विधिव्यवस्था तथा अन्यान् जनहितसम्बद्धान् विषयान् आधृत्य सर्वकारम् उत्तरदायित्वाय प्रेरयिष्यति।
अधिवेशनस्य आरम्भः कार्यमन्त्रणासमितेः सभया भविष्यति। १३ जुलाईमासतः १७ जुलाईमासपर्यन्तं प्रवर्तमाने अस्मिन् अधिवेशने सर्वकारः अष्टौ महत्त्वपूर्णानि विधेयकानि सदसि प्रस्तोष्यति।
वर्षाकालीनाधिवेशनम् अधृत्य राजनैतिकाः क्रियाकलापाः अत्यन्तं तीव्राः अभवन्। विधायकैः आहत्य १०३३ प्रश्नाः प्रस्तुताः सन्ति, येषु नकटीग्रामस्य विषयः, विद्युत्व्यवस्था, महार्घता तथा अन्ये जनहितसम्बद्धाः विषयाः प्रमुखाः सन्ति। एतेषु विषयेषु सदसि सशक्तः वादविवादः तथा सर्वकारात् उत्तरापेक्षा च भविष्यति।
Hindusthan Samachar / Dheeraj Maithani