Enter your Email Address to subscribe to our newsletters

नवदेहली, १३ जुलाईमासः (हि.स.)। दिल्ली-सर्वकारस्य मुख्यमन्त्री रेखा-गुप्ता सोमवासरे कृत्रिम-बुद्धिमत्ता-सञ्चालितस्य ‘डस्ट-पटलम् २.०’ नाम्नः डस्ट-पॉल्यूशन-कण्ट्रोल-सेल्फ-असेस्मेण्ट वेब-पटलस्य तथा चलदूरभाष-अनुप्रयोगस्य शुभारम्भम् अकरोत्।
दिल्ली-प्रदूषण-नियन्त्रण-समित्या विकसितः अयं अत्याधुनिकः डिजिटल-मञ्चः कृत्रिम-बुद्धिमत्तायाः साहाय्येन निर्माण-विध्वंस-स्थलेषु धूलि-नियन्त्रणोपायानां वास्तविक-समये निरीक्षणं करिष्यति। अनेन परियोजना-सञ्चालकेभ्यः स्वमूल्याङ्कनस्य सुविधा भविष्यति तथा दत्तांश-आधारित-निरीक्षणं प्रवर्तन-व्यवस्था च अधिकं सुदृढा भविष्यति।
अस्मिन् अवसरे दिल्ली-पर्यावरणमन्त्री मनजीन्दर-सिंह-सिरसा इत्यनेन सह सम्बद्ध-विभागस्य वरिष्ठ-अधिकारिणः अपि उपस्थिताः आसन्। कार्यक्रमे डस्ट-पटलम् २.० इत्यस्य प्रत्यक्ष-प्रदर्शनम् अपि अभवत्, यस्मिन् प्रदर्शितं यत् कृत्रिम-बुद्धिमत्ता कथं निरीक्षण-व्यवस्थां अधिक-कुशलां, अधिक-सूक्ष्मां तथा अधिक-प्रभावकारीं कर्तुं शक्नोति।
मुख्यमन्त्री अवदत् यत् देहल्यां वायु-प्रदूषणस्य विरुद्धं सङ्घर्षः केवलं कठोर-नियमैः न, अपितु आधुनिकाभिः स्मार्ट-प्रशासनिक-व्यवस्थाभिरपि क्रियते। डस्ट-पटलम् २.० निर्माण-स्थलेषु धूलि-प्रदूषणस्य निरीक्षण-प्रबन्धन-प्रक्रियायां महत्त्वपूर्णं परिवर्तनम् आनयिष्यति। कृत्रिम-बुद्धिमत्तायाः डिजिटल-प्रौद्योगिक्याः च माध्यमेन सर्वकारः अनुपालन-प्रक्रियां सरलां, निरीक्षणं अधिक-प्रभावकारं तथा प्रवर्तन-व्यवस्थां अधिक-पारदर्शिनीं करोति। एषः मञ्चः सुनिश्चितं करिष्यति यत् प्रत्येकं निर्माण-संस्था स्वच्छ-प्रदूषणमुक्त-देहल्याः निर्माणे सक्रिय-सहभागिनी भवेत्। भविष्ये चालान-प्रक्रियामपि पूर्णतया डिजिटल-रूपेण कर्तुं कार्यं प्रचलति, येन पटलस्य माध्यमेन प्रत्यक्षतया सूचना-पत्राणि दण्डादेशाश्च निर्गन्तुं शक्नुवन्ति।
दिल्ली-सर्वकारस्य विवरणानुसारं मार्गेभ्यः, मृत्तिकायाः तथा निर्माण-क्रियाकलापेभ्यः उत्पन्ना धूलिका राजधानी-वायु-प्रदूषणस्य प्रमुखं कारणम् अस्ति। ग्रीष्मर्तौ समग्र-वायु-प्रदूषणे अस्याः भागः प्रायः २७ प्रतिशतं, शिशिर-ऋतौ च १५ प्रतिशतं भवति। तथा च पीएम-१० उत्सर्जने धूलिकाया: योगदानं ६६ प्रतिशतं, पीएम-२.५ उत्सर्जने च प्रायः ३८ प्रतिशतं वर्तते। अस्याः समस्यायाः प्रभावी-समाधानार्थमेव डस्ट-पटलम् २.० विकसितम्।
डस्ट-पटलम् २.० इत्यस्य प्रमुख-प्राविधिक-विशेषताः— अस्मिन् पटले जीआईएस-मानचित्रणम्, प्रत्यक्ष-३६०-डिग्री पीटीजेड-चित्रकर्षक:, पीएम-१० तथा पीएम-२.५ संवेदकाः, वास्तविक-समय-विश्लेषणम् तथा कृत्रिम-बुद्धिमत्ता-आधारित-निरीक्षणम् इत्यादयः अत्याधुनिक-प्रौद्योगिक्यः समाविष्टाः सन्ति। एतत् पटलम् निर्माण-स्थलानां सूक्ष्म-मानचित्रणं करिष्यति तथा धूलि-नियन्त्रणसम्बद्धानां पञ्च प्रमुख-मानदण्डानां स्वयमेव मूल्याङ्कनं करिष्यति। अनेन निरीक्षणम् अधिकं निष्पक्षं, पारदर्शी तथा एकरूपं भविष्यति। सहैव निर्माण-स्थलस्य समीपस्थस्य वायु-गुणवत्ता-निरीक्षण-केन्द्रस्य परिचयं प्राप्य स्थल-स्तरीय-दत्तांशस्य विश्लेषणं करिष्यति। प्रदूषण-स्तरस्य वर्धने सति प्रणाली स्वयमेव पीत-नारङ्ग-रक्त-संचेतनाम् प्रसारयिष्यति, येन सम्बद्ध-संस्थाः समये आवश्यकां कार्यवाहीं कर्तुं शक्नुवन्ति।
पर्यावरणमन्त्री मनजीन्दर-सिंह-सिरसा अवदत् यत् निर्माण-विध्वंस-क्रियाभ्यः उत्पन्ना धूलिका देहल्याः वायु-प्रदूषणस्य प्रमुखेषु कारणेषु अन्यतमा अस्ति। डस्ट-पटलम् २.० इत्यस्य माध्यमेन प्रथमवारं ५०० वर्ग-गज-परिमाणात् अधिकेषु सर्वेषु निर्माण-स्थलेषु कृत्रिम-बुद्धिमत्ता-आधारित-निरीक्षणं भविष्यति। एषा अत्याधुनिक-व्यवस्था ३६०-डिग्री-चित्रकर्षक:, संवेदकान्, जीआईएस-प्रणालीं तथा वास्तविक-समय-दत्तांशं उपयुज्य धूलिका-नियन्त्रणोपायानां प्रभावात्मकं निरीक्षणं सुनिश्चितं करिष्यति। अद्यावधि निर्माण-स्थलानां निरीक्षणं मुख्यतया मानवीय-प्रक्रियासु आधारिता अभवत्, यासु अनेकाः न्यूनताः आसन्। नूतनया कृत्रिम-बुद्धिमत्ता-आधारितया व्यवस्थया नियमपालनस्य वास्तविक-समये निरीक्षणं भविष्यति, उल्लङ्घनस्य स्थितौ तत्क्षणमेव संचेतना: निर्गमिष्यन्ति तथा पुनः पुनः नियमभङ्गं कुर्वतां विरुद्धं कठोर-कार्यवाही करिष्यते। अनेन समग्रा प्रक्रिया अधिका पारदर्शिनी, उत्तरदायिनी तथा प्रभावकारिणी भविष्यति।
Hindusthan Samachar / Divya Ranjan