मुख्यमंत्री मॉडल टाउनमध्ये आंदोलनम् 70 लक्षस्य वृक्षाणां रोपणं महाअभियानेऽगृह्णाद्भागम्
नव दिल्ली, 13 जुलाईमासः (हि.स.)। दिल्लीमुख्यमन्त्री रेखागुप्ता सोमवासरे मॉडलटाउनक्षेत्रे आयोजिते एकः वृक्षः मातुः नाम्ना मिशन सप्ततिलक्षपादपारोपणमहाअभियाने सहभागितां कृत्वा पादपारोपणम् अकरोत्। अस्मिन् कार्यक्रमे मॉडलटाउनक्षेत्रे प्रायः एकसहस्रं
दिल्ली की मुख्यमंत्री रेखा गुप्ता सोमवार को मॉडल टाउन में मिशन 70 लाख पौधा रोपण महाअभियान में हिस्सा लेते हुए


नव दिल्ली, 13 जुलाईमासः (हि.स.)।

दिल्लीमुख्यमन्त्री रेखागुप्ता सोमवासरे मॉडलटाउनक्षेत्रे आयोजिते एकः वृक्षः मातुः नाम्ना मिशन सप्ततिलक्षपादपारोपणमहाअभियाने सहभागितां कृत्वा पादपारोपणम् अकरोत्।

अस्मिन् कार्यक्रमे मॉडलटाउनक्षेत्रे प्रायः एकसहस्रं शतं च पादपाः आरोपिताः। मुख्यमन्त्री अवदत् यत् प्रत्येकः पादपः आगामिसन्ततिभ्यः शुद्धवायुम् हरितिम् स्वस्थजीवनं च प्रदातुं कृतसंकल्पस्य प्रतीकः अस्ति। अस्मिन् अवसरे क्षेत्रीयविधायकः अशोकगोयलः, बहुसंख्यकाः स्थानीयनिवासिनः, आरडब्ल्यूए प्रतिनिधयः, अन्ये नागरिकाश्च उपस्थिताः आसन्।

मुख्यमन्त्री अत्र आयोजितं कार्यक्रमं सम्बोधयन्ती अवदत् यत् दिल्ल्यां विविधक्षेत्रेषु विशालस्तरे पादपारोपणकार्यक्रमाः निरन्तरं प्रचलन्ति। केन्द्रीयगृहमन्त्री अमितशाहेन जुलैमासस्य सप्तमे दिने मेगाप्लान्टेशनड्राइव अभियानस्य शुभारम्भः कृतः, यस्य अन्तर्गतं दिल्लीसर्वकारेण जनसहभागिता सुनिश्चितीकर्तुं विशेषपोर्टल अपि प्रारब्धम्। अस्य पोर्टलस्य माध्यमेन नागरिकेभ्यः पादपारोपणाभियाने सम्बद्धुं स्वसुविधानुसारं तिथेः समयस्य स्थानस्य च चयनं कृत्वा स्थानं आरक्षितुं सुविधा प्रदत्ता अस्ति। दिल्लीसर्वकारः वृक्षरथस्य माध्यमेन भवतां गृहेषु निःशुल्कं पादपान् प्रापयिष्यति। तथा च नागरिकाः नर्सरीलोकेटरस्य माध्यमेन स्वसमीपस्थां सर्वकारीयनर्सरीं चित्वा ततः निःशुल्कं पादपम् अपि प्राप्तुं शक्नुवन्ति।

मुख्यमन्त्री अवदत् यत् दिल्लीसर्वकारः राजधानीस्थं प्रत्येकं रिक्तम् उपयुक्तं च स्थानं हरितक्षेत्ररूपे परिवर्तयितुं दृढसंकल्पितः अस्ति। अस्यैव क्रमस्य अन्तर्गतं मॉडलटाउनक्षेत्रे सेन्ट्रलवर्ज क्षेत्रे, मेट्रोकोरिडोरस्य अधः, मार्गयोः उभयतः च पादपारोपणकार्यं क्रियते। तया उक्तं यत् एकः वृक्षः मातुः नाम्ना अभियानं केवलं पादपारोपणकार्यक्रमः नास्ति, अपितु प्रकृतेः पर्यावरणस्य मातृत्वस्य च प्रति सम्मानप्रदर्शनस्य जनान्दोलनम् अस्ति। एषः अभियानः नागरिकान् पर्यावरणसंरक्षणेन सम्बद्धान् कुर्वन् दिल्लीं स्वच्छहरितस्थायिभविष्यस्य दिशि नयति। तया दिल्लीनिवासिभ्यः अपीलं कृतं यत् ते अधिकाधिकसंख्यया पादपारोपणं कुर्वन्तु तथा दिल्लीसर्वकारस्य सप्ततिलक्षपादपारोपणसंकल्पस्य सफलतायै स्वयोगदानं ददातु।

---------------

Hindusthan Samachar / Dheeraj Maithani