Enter your Email Address to subscribe to our newsletters


लखनऊनगरम्, १३ जुलाईमासः (हि.स.)। केन्द्रीयरक्षामन्त्री राजनाथसिंहः सोमवासरे लखनऊस्थे किङ्ग्-जॉर्ज-चिकित्सा-विश्वविद्यालयस्य द्वाविंशतितमे दीक्षान्त-समारोहे सहभागी अभवत्। अस्मिन् अवसरे स्वसम्बोधने सः अवदत् यत् अद्य भारतं स्वास्थ्यक्षेत्रे आत्मनिर्भरं भवितुं द्रुतगत्या अग्रे सरति तथा च चिकित्सा-अनुसन्धाने नूतन-कीर्तिमानानि स्थापयति।
रक्षामन्त्री अवदत् यत् गतद्वादशवर्षेषु भारतस्य स्वास्थ्यक्षेत्रे अभूतपूर्वं परिवर्तनं दृष्टिगोचरम् अभवत्। पूर्वं गम्भीररोगाणां चिकित्सायां जनानाम् आर्थिकस्थितिः प्रभाविताभवत्, किन्त्वधुना आयुष्मान-भारत-योजनायाः अन्तर्गतं पात्र-लाभार्थिभ्यः निःशुल्कचिकित्सा प्रदीयते। सः अवदत् यत् सर्वकारस्य लक्ष्यं केवलं चिकित्सासुविधां प्रदातुमेव नास्ति, अपितु सुलभां, मितव्ययीं, गुणवत्तायुक्तां च स्वास्थ्यसेवाव्यवस्थां निर्मातुमपि अस्ति। प्रधानमन्त्री नरेन्द्रमोदिनः नेतृत्वे भारतस्य स्वास्थ्यतन्त्रं पूर्वापेक्षया अधिकम् आत्मनिर्भरं, सुलभं, मितव्ययं, आधुनिकं जनकेन्द्रितं च अभवत्।
राजनाथसिंहः अवदत् यत् उत्तरप्रदेशे मुख्यमन्त्रिणः योगी-आदित्यनाथस्य नेतृत्वे गतनववर्षेषु स्वास्थ्यसेवासु उल्लेखनीयः सुधारः अभवत्। वर्षे २०१७ पूर्वं उत्तरप्रदेशे केवलं सप्तदश चिकित्सा-महाविद्यालयाः आसन्, अधुना तु प्रदेशे एकाशीतिः चिकित्सामहाविद्यालयाः सञ्चाल्यन्ते। तदतिरिक्तं द्वे एम्स संस्थे अपि कार्यरते स्तः। उत्तरप्रदेशः अधुना एकः जनपदः–एकं चिकित्सामहाविद्यालयम् इति अवधारणामपि अतिक्रान्तवान्। सः अवदत् यत् पर्याप्तसंख्यायां वैद्याः विशेषज्ञाश्च उपलब्धाः स्युः चेत् एव स्वास्थ्यसेवानां गुणस्तरः उन्नेतुं शक्यते। एतस्याः चिन्तायाः आधारेण सर्वकारेण चिकित्साशिक्षायाः अभूतपूर्वः विस्तारः कृतः। अद्य भारतं जीन-चिकित्सया, नाभिकीय-चिकित्सया तथा अन्याभिः आधुनिक-प्रौद्योगिकीभिः वैश्विक-स्वास्थ्य-समस्यानां स्वदेशीय-समाधानानि विकसितवान्।
सः अवदत् यत् वैज्ञानिकैः हीमोफीलिया-रोगस्य उपचाराय स्वदेशी-जीन-चिकित्सायाः सफलं प्रदर्शनं कृतम्। तथा च पुणेनगरे स्थितेन एकेन संस्थानेन स्तन-कर्कटरोगस्य उपचाराय अत्याधुनिक-नैनो-औषधि विकसितम्। तेनोक्तं यत् सर्वकारस्य ध्यानं केवलं चिकित्सायामेव न, अपितु रोगाणां निवारणेऽपि केन्द्रितम् अस्ति।
केन्द्रीयमन्त्री अङ्गदानम् मानवतायै महत्तमम् उपहारम् इति निरूपितवान्। सः अवदत् यत् कस्यचित् व्यक्तेः निधनानन्तरं तस्य अङ्गानि बहुभ्यः जनाभ्यः नूतनजीवनं दातुं शक्नुवन्ति। समाजे अद्यापि अङ्गदानविषये अनेकाः भ्रान्तयः सङ्कोचाश्च सन्ति, येषां निवारणे वैद्यानां महती भूमिका अस्ति। वैद्यानां संवेदनशीलः परामर्शः संवादश्च कुटुम्बं अङ्गदानाय प्रेरयितुं शक्नोति। सः अवदत् यत् समाजे वैद्याः भगवत्समानाः मन्यन्ते, तेन सह महती उत्तरदायित्वभावनापि सम्बद्धा वर्तते। वैद्यस्य प्रत्येकं निर्णयः केवलं रोगिणं तस्य परिवारं च न, अपितु समग्रं समाजं राष्ट्रं च प्रभावितं करोति।
राजनाथसिंहः विश्वविद्यालयस्य प्रशंसां कुर्वन् अवदत् यत् अनेन संस्थानेन देशाय अनेकाः प्रतिष्ठिताः चिकित्सकाः प्रदत्ताः, ये पद्मविभूषण, पद्मभूषण, पद्मश्री तथा डॉ. बी. सी. राय-पुरस्कारः इत्यादिभिः सम्मानैः सम्मानिताः अभवन्। तेनोक्तं यत् केजीएमयू-संबद्धैः चिकित्सकैः सेवा-समर्पण-संवेदनशीलतायाः अनुकरणीया परम्परा स्थापिता।
दीक्षान्तसमारोहे राज्यपाल: आनन्दीबेन-पटेल:, उपमुख्यमन्त्री बृजेशपाठकः, राज्यमन्त्री मयंकेश्वर-शरण-सिंहः तथा कुलपतिः प्रोफेसर- सोनिया-नित्यानन्दः उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan