Enter your Email Address to subscribe to our newsletters



–प्राप्त-निवेशेन चतुस्त्रिंशत्-सहस्राधिक-रोजगार-अवसराः सृज्यन्ते, मुख्यमन्त्रिणा कॉन्क्लेव ३.० सम्बोधितम्
भोपालनगरम्, १३ जुलाईमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहन-यादवः अवदत् यत् एमपी-टेक-ग्रोथ-कॉन्क्लेव ३.० मध्ये एकपञ्चाशत् प्रमुख-क्रियाकलापाः सम्पन्नाः। एताभिः क्रियाभिः प्रायः चत्वारिंशत्-सहस्र-कोटि-रूप्यकाणां निवेशस्य तथा चतुस्त्रिंशत्-सहस्राधिक-रोजगार-अवसराणां सृजनस्य मार्गः प्रशस्तः अभवत्। एमपी-टेक-ग्रोथ-कॉन्क्लेव ३.० इत्यस्य यात्रायां राज्य-सर्वकारेण स्वस्य सर्वे सङ्कल्पाः सफलतया पूर्णीकृताः।
मुख्यमन्त्री सोमवासरे भोपालनगरे आयोजिते एमपी-टेक-ग्रोथ-कॉन्क्लेव ३.० मध्ये जीसीसी, डाटा-केन्द्रं तथा सेमीकण्डक्टर-उद्घाटन-अवसरे सम्बोधयन् अवदत् यत् पूर्वयोः द्वयोः टेक-ग्रोथ-कॉन्क्लेव-इत्यनयोः माध्यमेन प्रदेशाय षट्चत्वारिंशत्-सहस्र-कोटि-रूप्यकाणां निवेश-प्रस्तावाः प्राप्ताः। ग्लोबल-इन्वेस्टर्स-समिट–२०२५ अनन्तरं प्रौद्योगिकी-क्षेत्रे द्वादश-सहस्र-कोटि-रूप्यकाधिकः निवेशः धरातले अवतरितः अस्ति। अस्मिन् अवधौ द्वाविंशतिः नूतनाः औद्योगिक-विभागा: लोकार्पिताः, चतस्रः नूतन-परियोजनाः भूमिपूजनं च सम्पन्नम्, यत् राज्य-सर्वकारस्य कार्य-गतिं आत्मविश्वासं च प्रकाशयति।
सः अवदत् यत् प्रधानमन्त्री नरेन्द्र-मोदिनः नेतृत्वे भारतं स्वस्य क्षमता-योग्यता-बुद्धिमत्ताभिः विश्वे तीव्रगत्या अग्रे गच्छति। भारतस्य गौरवशाली-इतिहासः विश्वस्य पुरतः विद्यमानः अस्ति। गत-द्वादश-वर्षेषु भारतं विश्वस्य शीघ्रतम-विकासशील-राष्ट्रेषु स्वस्य विशिष्टं परिचयम् अधिगतवान्। भारतदेश: सर्वेषु क्षेत्रेषु विश्वाय नूतनां दिशां प्रददाति, अस्यां विकास-यात्रायां मध्यप्रदेशोऽपि महत्त्वपूर्णां भूमिकां निर्वहति। कृषि-खनिज-वनसम्पदां पारम्परिक-परिचयात् अग्रे गत्वा प्रदेशः अधुना रक्षा-उद्योगे, ड्रोन-प्रौद्योगिक्यां, विज्ञान-प्रौद्योगिकी-क्षेत्रे, नवीकरणीय-ऊर्जायां, औद्योगिक-परिसरेषु तथा भविष्य-विकास-क्षेत्रेषु द्रुतगत्या प्रगतिं करोति। एमपी-टेक-ग्रोथ-कॉन्क्लेव ३.० अस्याः विकास-यात्रायाः महत्त्वपूर्णं सोपानम् अस्ति।
मुख्यमन्त्री अवदत् यत् मध्यप्रदेश-सर्वकारः कृत्रिम-बुद्धिमत्ता, डाटा-केन्द्रं, सेमीकण्डक्टर-इत्यादीनां तथा सर्वेषां लघु-महत्-उद्योगानां विकासाय प्रतिबद्धः अस्ति तथा सर्वेभ्यः उद्योग-समूहेभ्यः समानतया सर्वतोभावेन सहयोगं प्रदास्यति। प्रदेशः साइन्स-सिटी, कृत्रिम-बुद्धिमत्ता, डीप-टेक-पार्क, डाटा-केन्द्रादिषु क्षेत्रेषु शीघ्रं प्रगतिं करोति। राज्य-सर्वकारः नवाचारम्, अनुसन्धानम्, कौशल-विकासम्, शैक्षणिक-सहयोगं च निरन्तरं प्रोत्साहयति।
सः अवदत् यत् मध्यप्रदेशे उद्योगानां कृते अत्यनुकूलं वातावरणम् अस्ति। अत्र प्रत्येकं स्वीयां सम्पूर्णां क्षमतां प्रयुज्य कार्यं कर्तुं शक्नोति। “वसुधैव कुटुम्बकम्” इति भावनया प्रेरितः प्रदेशः सर्वेषु क्षेत्रेषु विकासस्य अपरिमिताः सम्भावनाः धारयति। एमपी-टेक-ग्रोथ-कॉन्क्लेव ३.० प्रदेशस्य विकासे महत्त्वपूर्णां भूमिकां निर्वहिष्यति। अस्मिन् कॉन्क्लेव-मध्ये गूगल-प्ले इत्यनेन सह कृत्रिम-बुद्धिमत्ताया: तथा डिजिटल-क्षमताया: च विकास-क्षेत्रे सहकार्यसम्बद्धः महत्त्वपूर्णः एमओयू-सन्धि: अपि सम्पन्नः।
अष्टाविंशतिसहस्र-द्विशत-कोटि-रूप्यकाधिकाः विदेशी-निवेश-परियोजनाः धरातले साकाराः
मुख्यमन्त्री डॉ. यादवः अवदत् यत् मध्यप्रदेशे विदेशी-निवेशः अधुना केवलम् एमओयू-पर्यन्तं न सीमितः, अपितु धरातले साकाररूपेण दृश्यते। स्पेन, कनाडा, अमेरिका, यूनाइटेड-किङ्ग्डम्, जापान, दक्षिण-कोरिया, आयरलैण्ड् तथा भारत-जर्मनी-इत्येतेषां सहयोगेन सम्बद्धानां अष्टानां राष्ट्राणां दश प्रमुख-निर्माणीनां अष्टाविंशतिसहस्र-द्विशत-कोटि-रूप्यकाधिकाः निवेश-परियोजनाः प्रदेशे ग्राउण्ड-ब्रेकिङ्ग-चरणे सन्ति। तासु स्पेन-देशस्य सबमर-इण्डिया-प्रा.लि. इत्यस्य भोपाले प्रायः विंशतिसहस्र-कोटि-रूप्यकाणां कृत्रिम-बुद्धिमत्ता-सज्ज-डाटा-केन्द्रस्य स्थापना, कनाडा-देशस्य मैक्केन-फूड्स इत्यस्य ३८००-कोटि-रूप्यकाणां खाद्य-प्रसंस्करण-परियोजना, यूनाइटेड-किङ्ग्डम्-देशस्य हेलियन इत्यस्य ३०००-कोटि-रूप्यकाणां औषध-निर्माण-परियोजना तथा जापानस्य टोपान-स्पेशियलिटी-फिल्म्स इत्यस्य ११००-कोटि-रूप्यकाणां विशेष-चलचित्र-निर्माण-परियोजना प्रमुखाः सन्ति।
एताभिः सह अमेरिकादेशस्य ट्रूयर-स्पिलट-वाटर्स इत्यस्य ५००-कोटि-रूप्यकाणां नवीकरणीय-ऊर्जा-परियोजना, दक्षिण-कोरियादेशस्य बू-यङ्ग्-स्कीकॉर्प इत्यस्य २२५-कोटि-रूप्यकाणां चर्म-पादत्राण-निर्माण-परियोजना, एफीबार इत्यस्य २०७-कोटि-रूप्यकाणां चिकित्सोपकरण-उद्यानम्, आयरलैण्डस्य फेलिक्स-जेनेरिक्स इत्यस्य १३४-कोटि-रूप्यकाणां औषध-परियोजना, यूनाइटेड-किङ्ग्डम्-देशस्य क्लिनीसप्लाइज इत्यस्य १२७-कोटि-रूप्यकाणां चिकित्सोपकरण-उद्यानं तथा भारत-जर्मनी-सहयोगेन टीडब्ल्यूई-ओबीटी-प्रा.लि. इत्यस्य १२६-कोटि-रूप्यकाणां वस्त्र-उद्योग-परियोजना अपि प्रगतिपथे सन्ति। एताभिः निवेश-परियोजनाभिः औद्योगिक-विकासः, डिजिटल-अवसंरचनायाः सुदृढीकरणं तथा रोजगार-सृजनं नूतनां गतिं प्राप्स्यति।
स्पेन-देशस्य सबमर-समूहः भोपालनगरे २ बिलियन अमेरिकी-डॉलर-मूल्येन कृत्रिम-बुद्धिमत्ता-सज्जं डाटा-केन्द्रं स्थापयिष्यति
स्पेन-देशस्य सबमर-समूहः मध्यप्रदेशे २ बिलियन अमेरिकी-डॉलर निवेशेन कृत्रिम-बुद्धिमत्ता-सज्जं डाटा-केन्द्रं स्थापयिष्यति। सबमर-इण्डिया-प्राइवेट्-लिमिटेड इत्यस्य मुख्य-कार्यपालक-अधिकारी पैट्रिक-स्मेल्ट्स: अवदत् यत् डॉ. मोहन-यादवस्य नेतृत्वे मध्यप्रदेशः भारतस्य वैश्विक-उद्योगानां च मध्ये रणनैतिक-सहकार्यस्य सशक्तं केन्द्रम् अभवत्। तेन उक्तं यत् एमपी-टेक-ग्रोथ-कॉन्क्लेव केवलं निवेश-आकर्षणस्य मञ्चः न, अपितु राज्य-सर्वकारस्य दीर्घदर्शिनः विकास-दृष्टेः परिचायकः अपि अस्ति।
सः अवदत् यत् वर्षे २०२५ तमे जुलाई-मासे स्पेन-देशस्य बार्सिलोना-नगरे मुख्यमन्त्रिणा सह सम्पन्नानां सकारात्मक-चर्चानां निवेश-सन्धिनां च परिणामस्वरूपम् अधुना प्रदेशे कृत्रिम-बुद्धिमत्ता, डाटा-केन्द्रं तथा सूचना-प्रौद्योगिकी-क्षेत्रेषु निवेशः निरन्तरं वर्धते।
स्मेल्ट्स् अवदत् यत् कम्पनीद्वारा डाटा-केन्द्र-परियोजनायाः भूम्यावेदनस्य प्रस्तुतेः केवलं षड्-दिनानन्तरमेव भोपालस्य हज्जामपुरा-औद्योगिक-क्षेत्रे ६०,६१९.३० वर्ग-मीटर-भूमेः आवण्टनाय सहमति: एमपीआईडीसी-द्वारा १२ जुलाईमासे २०२६ तमे दिने प्रदत्ता। एषा भूमि: ९९-वर्षीय-पट्टेन प्रदास्यते। अस्य डाटा-केन्द्रस्य स्थापनया प्रायः ५००० प्रत्यक्ष-रोजगार-अवसराः सृज्यन्ते। एषः निवेशः वैश्विक-निवेशकानां मध्यप्रदेशे वर्धमान-विश्वासस्य तथा निवेशक-अनुकूल-कार्यपद्धतेः उत्कृष्टम् उदाहरणम् अस्ति।
स्मेल्ट्स: अवदत् यत् उद्योगानुकूल-परितन्त्रं, स्थानीय-यूनां कौशल-प्रशिक्षणम्, सर्वकारस्य दूरदर्शी-दृष्टिः दृढ-सङ्कल्पश्च मध्यप्रदेशस्य विकास-यात्रायाः प्रमुख-आधाराः सन्ति।
मुख्यमन्त्रिणः प्रमुख-घोषणाः
इन्दौरस्य सुपर-परिसर-क्षेत्रे त्रि-एकर-परिमिते प्रदेशे अत्याधुनिकः सूचना-प्रौद्योगिकी-उद्यानं विकसितं भविष्यति।
प्रदेशे सेमीकण्डक्टर-सेंटर-ऑफ-एक्सीलेन्स संस्थापितं भविष्यति, यत् कौशल-विकासम्, अनुसन्धानम्, उद्योग-सहयोगं तथा क्षमता-वर्धनं प्रोत्साहयिष्यति।
भोपाल-आईटी-उद्याने नूतनः आईटी-टावर इति निर्मास्यते
प्रदेशे एवीजीसी-एक्सआर-सेंटर-ऑफ-एक्सीलेन्स इति संस्थाप्य एनीमेशन, दृश्य-प्रभावाः, गेमिङ्ग, कॉमिक्स तथा विस्तारित-वास्तविकता-क्षेत्राणि प्रोत्साहितानि भविष्यन्ति।
भारत-सर्वकारस्य सहयोगेन मन्थन-सेंटर-ऑफ-एक्सीलेन्स तथा ग्लोबल-स्किल्स-पार्क-मध्ये कृत्रिम-बुद्धिमत्ता-केन्द्राणि स्थाप्यन्ते।
भोपालस्य कोलार-क्षेत्रे प्लग-एण्ड-प्ले-सुविधायुक्तं नूतनं सूचना-प्रौद्योगिकी-उद्यानं विकसितं भविष्यति, येन प्रौद्योगिकी-निर्माणीनां शीघ्र-कार्य-प्रारम्भः सुलभो भविष्यति।
Hindusthan Samachar / Divya Ranjan