Enter your Email Address to subscribe to our newsletters

भोपालनगरम्, १३ जुलाईमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहन-यादवः कोलम्बिया-देशस्य बुकारामाङ्गा-नगरे आयोजितायां ५६तमायां इन्टरनेशनल फिजिक्स ओलम्पियाड–२०२६ स्पर्धायां स्वर्णपदक-विजेतृभ्यः युवभ्यः हार्दिकाभिनन्दनं प्रदाय तेषां उज्ज्वल-मङ्गलमय-भविष्यस्य शुभकामनाः प्रयच्छत्।
मुख्यमन्त्री डॉ. यादवः सोमवासरे स्वसन्देशे अवदत्— “अन्ताराष्ट्रिय-मञ्चे पुनः त्रिरङ्गः उत्तोलितः।” कोलम्बिया-देशस्य बुकारामाङ्गा-नगरे आयोजितायां ५६तमायां इन्टरनेशनल फिजिक्स ओलम्पियाड–२०२६ स्पर्धायाम् इन्दौरनगरस्य प्रतिभाशालिनः छात्रस्य रिद्धेश-अनन्त-बेण्डले इत्यनेन सह कनिष्क-जैनः, ऋषित-गर्गः, श्रेष्ठा-सुरैया तथा स्वरित-जोशी इत्येतेभ्यः स्वर्णपदक-विजयस्य निमित्तं हार्दिकमभिनन्दनं उज्ज्वल-भविष्याय च शुभकामनाः। भवतामियं ऐतिहासिकी उपलब्धिः युवानः विज्ञान-नवाचार-क्षेत्रयोः अग्रे गन्तुं प्रेरयिष्यति। वयं सर्वेषु भवत्सु गर्वं अनुभवामः।
Hindusthan Samachar / Divya Ranjan