Enter your Email Address to subscribe to our newsletters

नवदेहली, १३ जुलाईमासः (हि.स.)। दिल्ली-सर्वकारेण ‘महिला-समृद्धि-योजनायाः’ नाम परिवर्त्य ‘दिल्ली-लक्ष्मी-योजना’ इति नाम कृतम्। अस्याः योजनायाः अन्तर्गतं २१ वर्षात् ६० वर्षपर्यन्तं योग्याभ्यः महिलाभ्यः प्रतिमासं २५०० रूप्यकाणां आर्थिक-साहाय्यं प्रदास्यते। सर्वकारेण अस्याः योजनायाः शुभारम्भः अग्रिम-मासे रक्षाबन्धन-पर्वणः समीपे कर्तुं लक्ष्यं निर्धारितम्। तदर्थं पात्रतासम्बद्धानि मानदण्डानि अपि निर्धारितानि सन्ति।
योजनायाः प्रभावि-समयबद्ध-क्रियान्वयनं सुनिश्चितं कर्तुं मुख्यमन्त्री रेखा-गुप्ता सोमवासरे दिल्ली-सचिवालये उच्चस्तरीय-समीक्षा-सभाम् अकरोत्। अस्मिन् उपवेशने मुख्यसचिवेन राजीव-वर्मणा सह सम्बद्ध-विभागानां वरिष्ठ-अधिकारिणः उपस्थिताः आसन्। मुख्यमन्त्री अधिकारिणः स्पष्टतया निर्देशितवती यत् योजनायाः लाभः महिलाभ्यः पारदर्शितया, सरलतया, समयबद्धरीत्या च प्राप्नुयात् तथा च अस्याः क्रियान्वयने कापि प्रशासनिक-बाधा न भवेत्।
सभायां योजनायाः पात्रतासम्बद्ध-मानदण्डेषु विस्तरेण चर्चा अभवत्। निर्णयानुसारं योजनायाः लाभः तस्यै एव महिलायै प्रदास्यते या स्वयम् अथवा यस्याः परिवारः न्यूनातिन्यूनं दशवर्षेभ्यः दिल्ली-निवासी अस्ति। लाभार्थिन्याः तथा तस्याः परिवारस्य विरुद्धं कश्चन आपराधिक-अभिलेखः न भवेत्। परिवारे आयुक्रमेण ज्येष्ठा महिला एव अस्याः योजनायाः योग्या भविष्यति तथा च एकस्मात् परिवारात् केवलम् एका महिलैव अस्याः योजनायाः लाभं प्राप्स्यति। एतदतिरिक्तं लाभार्थिन्याः परिवारस्य वार्षिकी आयः द्विलक्ष-पञ्चाशत्सहस्र-रूप्यकाणि अतिक्रान्तुं न अर्हति। या महिला पूर्वमेव सर्वकारस्य कस्यचित् पेंशन-योजनायाः अथवा अन्यस्य नियमित-आर्थिक-साहाय्य-योजनायाः लाभं प्राप्नोति, सा अस्याः योजनायाः योग्या न भविष्यति। तथैव यस्य परिवारस्य समीपे चतुश्चक्र-वाहनम् अस्ति, तस्य परिवारस्य महिलापि अस्याः योजनायाः लाभं न प्राप्स्यति।
मुख्यमन्त्री अवदत् यत् प्रधानमन्त्री नरेन्द्र-मोदी सदा एव महिला-नेतृत्वयुक्त-विकासं राष्ट्रस्य प्रगतेः सर्वाधिक-प्रभावकरं माध्यमम् अमन्यत। तस्यैव चिन्तनधारायाः अनुसरणं कुर्वती दिल्ली-सर्वकारः राजधानीस्थाः महिलाः ‘दिल्ली-लक्ष्मी-योजना’ इत्यस्य माध्यमेन आर्थिकदृष्ट्या सशक्ताः, आत्मनिर्भराः, सम्मानपूर्णं जीवनं च यापयितुं दृढमाधारं प्रददाति।
सभायां मुख्यमन्त्री अधिकारिणः निर्देशितवती यत् योजनायाः सर्वेषां दिशानिर्देशानां कठोरतया पालनं सुनिश्चितं क्रियताम्, येन केवलं वास्तविक-पात्र-लाभार्थिन्यः एव अस्याः योजनायाः लाभं प्राप्नुयुः। सर्वकारस्य लक्ष्यं योजनां पूर्ण-पारदर्शितया उत्तरदायित्वेन च कार्यान्वितुं वर्तते।
अस्याः योजनायाः माध्यमेन देहल्याः लक्षशः परिवाराणां महिलाभ्यः प्रत्यक्षलाभः भविष्यति। अनेन महिलानां आर्थिक-सहभागिता वर्धिष्यते, परिवाराणां वित्तीय-स्थैर्यं सुदृढं भविष्यति, समाजे च महिला-सशक्तीकरणाय नूतना गतिः प्राप्स्यते।
Hindusthan Samachar / Divya Ranjan