जिलाचिकित्सालयानाम् उन्नयनस्य पद स्वीकृतेश्च कार्यवाही प्राथमिकतया करणीया पूर्णा : उप मुख्यमंत्री शुक्लः
- विशेषज्ञानामपि पदोन्नतेः कार्यवाही शीघ्रं पूरयितुं दत्तो निर्देशः भोपालम्, 13 जुलाईमासः (हि.स.)। मध्यप्रदेशस्य उपमुख्यमन्त्री राजेन्द्रशुक्लः सोमवासरे मन्त्रालये लोकस्वास्थ्यचिकित्साशिक्षाविभागस्य विविधविषयाणां योजनानां च प्रगतिसमीक्षाम् अकरोत
उप मुख्यमंत्री राजेन्द्र शुक्ल ने योजनाओं की प्रगति की समीक्षा की


- विशेषज्ञानामपि पदोन्नतेः कार्यवाही शीघ्रं पूरयितुं दत्तो निर्देशः

भोपालम्, 13 जुलाईमासः (हि.स.)।

मध्यप्रदेशस्य उपमुख्यमन्त्री राजेन्द्रशुक्लः सोमवासरे मन्त्रालये लोकस्वास्थ्यचिकित्साशिक्षाविभागस्य विविधविषयाणां योजनानां च प्रगतिसमीक्षाम् अकरोत्। सः विभागीयकार्येषु शीघ्रतां विधाय सर्वेषां लम्बितप्रकरणानां समयबद्धं निराकरणं सुनिश्चितं कर्तुं निर्देशान् अददात्।

उपमुख्यमन्त्री शुक्लः अवदत् यत् जिला चिकित्सालयानां उन्नयनस्य तथा नवीनपदानां सृजनस्वीकृत्योः सम्बन्धिनी विभागीयकार्यवाही शीघ्रं पूर्णा क्रियताम्, येन स्वास्थ्यसेवाः अधिकाः प्रभाविण्यः गुणवत्तायुक्ताश्च भवेयुः। तेन निर्देशाः दत्ताः यत् परिचारिकाभर्तीपरीक्षाणां समयबद्धम् आयोजनं क्रियताम् तथा सम्पूर्णप्रक्रियायाः नियमितम् अनुश्रवणं सुनिश्चितं भवेत्।

**उपमुख्यमन्त्री शुक्लः अवदत् यत् बन्धपत्रधारिणां चिकित्सकानां पदस्थापनादेशाः शीघ्रं निर्गम्य चिन्हितानां चिकित्सकानां समयोचितपदस्थापनम् उपलब्धता च सुनिश्चितीक्रियताम्। उपमुख्यमन्त्री शुक्लः विशेषज्ञचिकित्सकानां अन्येषां चिकित्सकानां च पदोन्नतिप्रक्रियायां शीघ्रतां विधाय तां यथाशीघ्रं सम्पन्नां कर्तुं निर्देशान् अददात्। उपवेशने लोकस्वास्थ्यचिकित्साशिक्षाविभागस्य अपरमुख्यसचिवः अशोकबर्णवालः अन्ये अधिकारिणश्च उपस्थिताः आसन्।

---------------

Hindusthan Samachar / Dheeraj Maithani